१०

रौद्रं गवि सद् वायव्यम् उपावसृष्टम् आश्विनं दुह्यमानं सौम्यं दुग्धं वारुणम् अधिश्रितं मैत्रं शरोगृहीतं मारुतं बिन्दुमत् पौष्णम् उदन्तं सारस्वतं विष्यण्णं वैष्णवं प्रतिनीयमानं स्वर्ग्यम् उद्वासितं त्वष्टुर् उन्नीयमानं धातुर् उन्नीतं वैश्वकर्मणम् उद्यतं सावित्रं प्रणीयमानं द्यावापृथिवीयं प्रह्रियमाणम् ऐन्द्राग्नम् उपसन्नं प्राजापत्यं समिधि वैश्वदेवं हुतम् ॥म्स्_१,८।१०॥