इति जुहुयाद् यद्य् अनो वा रथो वान्तरा वियायाद् एवावन्तो वै यज्ञस्य तन्तवो देवता वा एतास् तान् वा एतत् समवृक्षत् ताः सन्दधात्य् एतद् ध स्म वा आहुर् दाक्षायणास् तन्तून्त् समवृक्षद् गाम् अन्वत्यावर्तयेति गौर् हि यज्ञिया मेध्येदं विष्णुर् विचक्रमा इति पदं योपयति विष्णोः स्विद् एव यज्ञस्य विक्रान्तम् अकर् अपो ऽन्वतिषिञ्चति शान्त्यै ॥म्स्_१,८।९॥