०७

प्रातर् वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैत् तद् यथा कारुद्वेषिणो जुह्वत्य् एवम् अस्य हुतं भवति यस्याग्निम् अनुद्धृतं सूर्यो ऽभिनिम्रोचेद् यो ब्राह्मणो बहुवित् स उद्धरेत् सर्वेणैवैनं ब्रह्मणोद्धरत्य् अग्निहोत्रेणानुद्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयति वरो दक्षिणा सर्वत एवैनं दिग्भ्यो वरेण च्यावयति यस्योभा अनुगता अभिनिम्रोचेद् यस्य वाभ्युदियात् पुनराधेयम् एव तस्य प्रायश्चित्तिर् यथा वै पथो वर्तनी एवं दर्शपूर्णमासौ यथान्तरैवम् अग्निहोत्रम् एवं वा अग्निहोत्रिणे दर्शपूर्णमासिने स्वर्गो लोको ऽनुभात्य् उपान्यानि हवींषि वसन्त्य् अथ कस्माद् अग्निहोत्रं नोपवसन्तीति ब्रह्मवादिनो वदन्ति प्रततं वा एतद् अपरिमितम् असंस्थितम् अश्नाति मांसम् उप स्त्रियम् एति तस्मान् नोपवसन्ति पशुव्रतेन भवितव्यं तूष्णीम् इव पशवः सम्भवन्ति ते मेध्या यत् तूष्णीं स्त्रियम् उपैति मेध्यतरस् तेन भवति हिङ्कृत्योपेयाद् एवम् इव हि पशव उपयन्ति मेध्यत्वाय संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते ऽग्निहोत्रं यत् संस्थापयेत् तृणम् अक्त्वानुप्रहरेत् सा ह्य् अग्निहोत्रस्य संस्थितिस् तद् आहुर् यदा वै जीयते यदा प्रमीयते यदार्तिम् आर्छत्य् अथाग्निहोत्रं सन्तिष्ठता इति तन् न संस्थाप्यं मनसा वा इमां प्रजापतिः पर्यगृह्णाद् इयं वा अग्निहोत्रस्य वेदिर् इयम् उपयाम ओषधयो बर्हिः प्रुष्वाः प्रोक्षणीर् दिशः परिधयो यत् किञ्चाभ्याधीयते स इध्मो यजमानो यूप उन्नीयमाने स्थेयम् एवम् इव हि यूपः समृद्ध्यै मध्यतो वा एष यज्ञः प्रततो यद् अग्निहोत्रं तस्माद् अग्निहोत्री दर्शपूर्णमासी सर्वं बर्हिष्यं ददाति मध्यतो ह्य् एतद् यज्ञस्य दीयते यद् अग्निहोत्रे होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्त आमाद् इव वा एष यद् राजन्यो बहु वा एषो ऽयज्ञियम् अमेध्यं चरत्य् अत्यनन्नं जिनाति ब्राह्मणं तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यम् ऋतं वै सत्यम् अग्निहोत्रं ब्राह्मण ऋतं सत्यं तस्माद् ब्राह्मणस्यैव होतव्यम् अथो ब्राह्मणायैवास्याग्रतो गृह आहरेयुस् तद् धुतम् एवास्याग्निहोत्रं भवत्य् अथो य ऋतम् इव सत्यम् इव चरेत् तस्य होतव्यम् अनुसन्तत्यै ॥म्स्_१,८।७॥
दर्शपूर्णमासौ : फ़्न् एमेन्देद्। एद्।: दर्शपर्णमासौ।
प्रुष्वाः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रोक्षणीर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

याग्निहोत्रायोपसृष्टा निषीदेद् यस्यान्नं नाद्यात् तस्मै तां दद्याद् अवर्तिं वा एषा यजमानस्यानुत्सह्य निषीदति तयैवैनां सह निरवदयते गृहे तु तस्य ततः परो नाश्नीयाद् यद् अश्नीयाद् आर्तिम् आर्छेद् यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेद् अग्निना च सहाग्निहोत्रेण चोद्द्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयत्य् अथाभिमन्त्रयेत ॥

इत एव प्रथमं जज्ञे अग्निर् एभ्यो योनिभ्यो अधि जातवेदाः ।
स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥

इत्य् एते वा एतस्य योनयः स्वेभ्य एवैनं योनिभ्यो ऽधि प्रजनयति ॥

इषे राये रमस्व सहसे द्युम्नायोर्जे ऽपत्याय ॥

इत्य् एतान्य् एवावरुन्द्धे ऽथो रमयत्य् एवैनम् ॥

सम्राड् असि स्वराड् असि सुषदा सीद ॥

इति सुषदैवैनं सादयति ॥

सारस्वतौ त्वोत्सौ प्रावताम् ॥

इत्य् ऋक्सामे वै सारस्वता उत्सौ ताभ्याम् एवैनं प्रावति ताभ्यां समर्धयत्य् अग्नये ज्योतिष्मते ऽष्टाकपालं निर्वपेद् वारुणं यवमयं चरुं यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेत् तमो वा एतस्य यज्ञं युवते यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछति यद् अग्नये ज्योतिष्मते ज्योतिषैवास्य यज्ञं समर्धयति वारुणी रात्रिर् यद् वारुणो वरुणाद् एवास्याधि यज्ञं स्पृणोति यस्याहुते ऽग्निहोत्रे ऽपरो ऽग्निर् अनुगछेत् तत एव प्राञ्चम् उद्धृत्यान्ववसायाग्निहोत्रं जुहुयाद् अथाभिमन्त्रयेत ॥