०६

भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एभ्यो वा एतल् लोकेभ्या इष्टका उपदधाति स्वर्गस्य लोकस्य समष्ट्यै यत् सायं जुहोति सहस्रं तेन कामदुघा अवरुन्द्धे यत् प्रातः सहस्रं तेन यद् अस्याग्निर् आधीयते सहस्रं तेन यमराज्यं वा अग्निष्टोमेनाभिजयति सोमराज्यम् उक्थ्येन सूर्यराज्यं षोडशिना स्वाराज्यम् अतिरात्रेणैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद हविष्मान् वा एको देवयाज्य् एकः सहस्रयाज्य् एको यो ऽग्निहोत्रं जुहोति स हविष्मान् यो दर्शपूर्णमासौ यजते स देवयाजी यश् चातुर्मास्यैर् यजते स सहस्रयाज्य् अग्निहोत्रे वै सर्वे यज्ञक्रतवः सर्वान् यज्ञक्रतून् अवरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति ॥म्स्_१,८।६॥

प्रैयमेधा वै सर्वे सह ब्रह्माविदुस् ते ऽग्निहोत्रेण समराधयंस् तेषां त्रिर् एको ऽजुहोद् द्विर् एकः सकृद् एकस् तेषां यस् त्रिर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीत् त्रेधा वा इदम् अग्नये प्रजापतये सूर्यायेत्य् अथ यो द्विर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् द्वेधा वा इदम् अग्नये च प्रजापतये च सायं सूर्याय च प्रजापतये च प्रातर् इति अथ यः सकृद् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् एकधा वा इदं प्रजापतय एवेति तेषां यो द्विर् अजुहोत् स आर्ध्नोत् तस्येतरे साजात्यम् उपायन्न् ऋध्नोति य एवं विद्वान् अग्निहोत्रं जुहोत्य् उपास्य समानाः साजात्यं यन्ति प्रदोषम् अग्निहोत्रं होतव्यं व्युष्टायां प्रातर् वृद्धान् गर्भान् प्रजनयति तद् आहुः परा वा एतस्याग्निहोत्रं पतति यस्य प्रदोषं न जुह्वतीति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥

दोषा वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैद् धोतव्या३न् न होतव्या३म् इति मीमांसन्ते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् धोतव्यम् एवाग्नये वा एतद् धृत्यै गुप्त्यै हूयते प्रजननं तु छम्बट्करोति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥
भूर् : फ़्न् एमेन्देद्। एद्।: भू।