अग्ने गृहपते परिषद्य जुषस्व स्वाहा ॥ इति जुहुयात् तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यद् एवास्य गृह उपह्रियते यद् एनम् अग्निम् अभिता आसीना याचन्ति तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोति ॥म्स्_१,८।५॥
द्वे दुहन्त्य् अग्निहोत्राय ज्यायान् वा एकस्यादुग्धाद् अग्निहोत्रिणो लोको यद् द्वे दुहन्ति ज्यायांसं वा एतल् लोकं यजमानो ऽभिजयति मनुश् च वा इदं मनायी च मिथुनेन प्राजनयतां यत् स्थाल्या च दोहनेन च दुहन्ति मिथुनाद् एव प्रजायते ॥
एतल् : फ़्न् एमेन्देद्। एद् (म्२): एतम्। म्१: एतम्। ह्, ब्ब् ब्: एतल्
सजूर् जातवेदो दिवा पृथिव्या जुषाणो अस्य हविषो वीहि स्वाहा ॥ इति जुहुयाद् एषा वा अस्य जातवेदस्या तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ अग्ने दुःशीर्ततनो जुषस्व स्वाहा ॥ इति जुहुयाद् एषा वा अस्य शृणती तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ द्वादश रात्रीः सायंसायं जुहुयाद् द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरो वा अग्निर् वैश्वानरस् तम् आहिताग्नयो दर्शपूर्णमासिन इन्धते तेषां वा ऋतव एव दारूणि ये स्थविष्ठा अङ्गारास् ते मासा ये क्षोदिष्ठास् ते ऽर्धमासा अहोरात्राणि मुर्मुरा यत् सधूमं ज्योतिस् तद् वैश्वदेवं यल् लोहितं तद् वारुणं यत् सुवर्णं तद् बार्हस्पत्यं यन् न लोहितं न सुवर्णं तन् मैत्रं यद् अङ्गारेषु व्यवशान्तेषु लेलायद् वीव भाति तद् देवानाम् आस्यम् अथो अमुष्य च वा एतद् आदित्यस्य तेजो मन्यन्ते ऽग्नेश् च तस्मात् तर्हि होतव्यं यद् ध्य् एवासन्न् अपिदधाति तद् धिनोत्य् आविर् वै नामैषाहुतिर् आविर्भूयं देवमनुष्येषु गछति य एवं वेद न समिद् अभि होतवय् अप्रतिष्ठिता साहुतिर् नो यथा वीवावस्रवेद् अयता सा तत् तथैव होतव्यं यथाग्निं व्यवेयात् सा हि यता सा प्रतिष्ठिता तस्मान् महान् अग्निहोत्रस्येध्मः कार्यो यो वै बहु ददिवान् बह्व् ईजानो ऽग्निम् उत्सादयते ऽक्षित् तद् वै तस्य तद् ईजाना वै सुकृतो ऽमुं लोकं नक्षन्ति ते वा एते यन् नक्षत्राणि यद् आहुर् ज्योतिर् अवापादि तारकावापादीति ते वा एते ऽवपद्यन्त आप्त्वा स्थिते त इदं यथालोकं सचन्ते यदामुतः प्रच्यवन्ते ऽथ यो बहु ददिवान् बह्व् ईजानो ऽग्निहोत्रं जुहोति दर्शपूर्णमासौ यजते चातुर्मास्यैर् यजते बहूनि सत्राण्य् उपैति तस्य वा एतद् अक्षय्यम् अपरिमितं तिरो वा ईजानाद् यज्ञो भवति तद् आभ्याम् एवाग्निभ्यां दग्धव्यः स्वं वा एतद् इष्टम् अन्वारोहत्य् अपरेण दग्धव्या३ः पूर्वेणा३ इति मीमांसन्त उभौ समाहृत्यान्तरा दग्धव्यस् तद् अवकॢप्ततमं गृह्णीयान् नक्तम् अग्निम् असुर्या वै रात्रिर् ज्योतिषैव तमस् तरति दिवा ह वा अस्मा अस्मिंल् लोके भवति प्रास्मा असौ लोको भाति य एवं वेद ॥
वीव : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
दग्धव्या३ः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।