०४

वर्चो मे यछ ॥ इति सादयति वर्च एवास्मिन् यछत्य् ओषधीर् वा इमा रुद्रा विषेणाञ्जंस् ताः पशवो नालिशन्त ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् अब्रवीद् वार्यं वृणै भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन्त् सो ऽब्रवीन् मद्देवत्यैव समिदसद् इति तस्मात् प्राजापत्या समिद् देवेषु ह्य् अस्यैषा वार्यवृता द्वे समिधौ कार्ये द्वे ह्य् आहुती एकैव कार्यैको हि प्रजापतिर् एकधा खलु वै समिद्ध उत बह्वीर् आहुतयो हूयन्ते ता अग्निनान्ववाकरोत् ता अस्वदयत् ताः पुनर्णवा अजायन्तैतर्हि खलु वा अग्निहोत्रिणे दर्शपूर्णमासिने सर्वा ओषधयः स्वदन्ते यत् समिधम् आदधाति सर्वा एवास्मा ओषधीः स्वधयाम् अकः ॥म्स्_१,८।४॥

भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एतद् वै ब्रह्मैतत् सत्यम् एतद् ऋतं न वा एतस्माद् ऋते यज्ञो ऽस्ति तस्माद् एवं वदितव्यम् ॥

अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति गर्भिण्या वाचा गर्भं दधाति मिथुनया वाचा मिथुनं प्रजनयति यद् वाचा च जुहोति यजुषा च तन् मिथुनं यत् तूष्णीं च जुहोति मनसा च तन् मिथुनं स्थाणुर् वै पूर्वाहुतिर् अतिहाय पूर्वाम् आहुतिम् उत्तरा होतव्या स्थाणुम् एव छम्बट्करोत्य् उत्तराहुतिर् भूयो होतव्या यज्ञस्याभिक्रान्त्यै पशून् एव पूर्वयाहुत्या स्पृणोति ब्रह्मवर्चसम् उत्तरयाग्नेयी सायम् आहुतिस् तया रेतः सिञ्चति तद् रेतः सिक्तं रात्र्यै गर्भं दधाति तत् सौर्या प्रातः प्रजनयाम् अकर् इयं होतव्याथ पराथ पुनर् अवस्तात् प्रातर् अवस्ताद् धि प्रजानां प्रजातिः प्रजननं हि सौरी तन् न सूर्क्ष्यं परापरैव होतव्या यज्ञस्याभिक्रान्त्यय् उदङ्ङ् उद्दिशति ॥
ज्योतिर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अनाभो मृड धूर्ते नमस् ते अस्तु रुद्र मृड ॥ इत्य् एता वै रुद्रस्य तन्वः क्रूरा एतानि नामान्य् एताभिर् वा एष पशूञ् शमायते ता एवास्य भागधेयेन शमयत्य् अवाचीनं सायम् अवमार्ष्टि तस्मात् सायम् अवाची प्रुष्वैत्य् ऊर्ध्वं दिवोन्मार्ष्टि तस्माद् ऊर्ध्वा दिवैति पराचीनम् इव वा एतद् यद् अग्निहोत्रं यत् पुरस्ताद् याजुषं वदति धृत्या अनिर्मार्गाय यो वा अग्निहोत्रस्य वैश्वदेवं वेदाघातुक एनं पशुपतिर् भवत्य् अघातुको ऽस्य पशुपतिः पशून् प्राङ् आसीनो जुहोति देवांस् तेन प्रीणाति हुत्वोञ्शिंषति पशून् एव यजमानायोञ्शिंषत्य् उदङ्ङ् उद्दिशति रुद्रं तेन निरवदयते दक्षिणतो निमार्ष्ट्य् ओषधीश् च तेन पितॄंश् च प्रीणाति प्राश्नाति मनुष्यांस् तेन प्रीणात्य् अङ्गुल्या प्राश्नाति सदत्त्वाय न दतो गमयेद् यद् दतो गमयेत् सर्पा एनं घातुकाः स्युः सर्पान् एव शमयत्य् अहिंसायै ॥
ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
सदत्त्वाय : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद्।: यदत्त्वाय।

पूषासि ॥ इति यजुर् वदेत् पशवो वै पूषा पशून् एवावरुन्द्धे ऽशान्तो वा एषो ऽप्रीतः पुरुषमेधं वा एष प्रतीक्षते यजमानम् एव हव्यं यद् अग्निहोत्रहवणीं निष्टपत्य् अशान्तस् तेनाग्निहोत्रहवणीं प्रतप्य हस्तो ऽवधेयो हस्तो वा प्रतप्याग्निहोत्रहवण्याम् अवधेयस् तेनैवैनं शमयति तेन प्रीणाति शान्त एनं प्रीतो न हिनस्तीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते होतव्यं गार्हपत्या३न् न होतव्या३म् इति मीमांसन्ते ऽनुध्यायी वा एष रूक्षो होतव्यम् एव ॥