स्थाल्या दुहत्य् अनया वा एतद् उपसीदन्ति नहीमाम् इतो नेतः स्कन्दत्य् अस्कन्नत्वायार्यकृती भवत्य् ऊर्ध्वकपाला सदेवत्वाय सा हि सदेवासुर्यं वा एतत् पात्रं यत् कुलालकृतं चक्रवृत्तं यत्र स्कन्देत् तद् अपो निनयेद् आपो वै शान्तिर् आपो निष्कृतिर् आपो भेषजा यत्र वा एता अस्या उपयन्ति तत् प्रशस्ततरा ओषधयो जायन्ते बंहीयसीर् यदि दुह्यमानावभिन्द्याद् अन्यया स्थाल्या निर्णिज्य दोह्या यज्ञो हि यज्ञस्य प्रायश्चित्तिर् यद्य् अधिश्रितं स्कन्देद् यद्य् उद्वास्यमानं यद्य् उद्वासितं यद्य् उन्नीयमानं यद्य् उन्नीतं यदि पुरः पराहृतं होमाय पुनर् अवनीयान्याभिदुह्या यज्ञो हि यज्ञस्य प्रायश्चित्तिर् वारुणीम् ऋचम् अनूच्य वारुण्या होतव्यं वरुणो वा एतद् यज्ञस्य गृह्णाति यद् आर्छति निष्कृतिर् एवैषा प्रायश्चित्तिर् अप्रतिषेक्यं स्यात् तेजस्कामस्य ब्रह्मवर्चसकामस्याथो तुस्तूर्षमाणस्याथो यः कामयेत वीरो मा आजायेतेत्य् अप्रतिषिक्तो वै घर्मस् तेजो ब्रह्मवर्चसं तेजस्वी ब्रह्मवर्चसी भवति स्तृणुते यं तुस्तूर्षत आ हास्य वीरो जायत आज्येन होतव्यं यस्याप्रतिषेक्यं स्याद् एतद् वा अप्रतिषिक्तं न तु स्कन्नस्य प्रायश्चित्तिर् अस्त्य् अथो न पशुमान् इव भवति पशूनां वा एतत् पयः प्रवृज्यते शुचं पशुषु दधाति तेजो ऽशान्तं पशून् निर्दहति तस्मात् प्रतिषेक्यम् एव स्याद् यद् अद्भिः प्रतिषिञ्चेद् धरो विनयेद् गान्दोहसन्नेजनेन प्रतिषिच्यं तद् धि नापो न पयस् तद् आहुः स्कन्दति वा एतद् यर्हि वा एतद् दोहनात् पर्याक्रियते तर्हि स्कन्नम् अन्तर्हिता ह्य् अस्या वनस्पतय इति तद् अद्भिर् एव प्रतिषिच्यं स्तोकेनैकेन न हरो विनयति शुचं पशूनां शमयति पशवो वै तेजो ब्रह्मवर्चसं मिथुनं वा आपश् च पयश् च मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायत ओदनेन होतव्यं यस्य प्रातषेक्यं स्याद् एष हि प्रतिषिक्तः शान्तो मेध्यो मिथुनः प्रजनिष्णुः ॥म्स्_१,८।३॥
नहीमाम् : फ़्न् न हि ओर् नहि
आर्छति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रजापतिः प्रजा असृजत ता वै तपसैवासृजत स वै स वाचम् एवायछत् तपो वा एष उपैति यो वाचं यछति सृष्टिः प्रजानाम् अग्निहोत्रम् उभयत एव प्रजाः सृजत इतश् चामुतश् च निम्रुक्ते सूर्ये वाग् यन्तव्याथो दुह्यमानायाम् अथो अधिश्रित उन्नीयमान एव यन्तव्यास् तद् अवकॢप्ततमम् ॥
उद्भवः स्थ ॥ इत्य् अवेक्षेत ॥
उद् अहं प्रजया पशुभिर् भूयासम् ॥ इति प्रजायाः पशूनां सृष्ट्यय् अथो अभ्य् एवैनद् घारयति मेध्यत्वायाग्निहोत्रे वै दम्पती व्यभिचरेते पूर्वो यजमानस्य लोको ऽपरः पत्न्या यत् प्राचीनम् उद्वासयेद् यजमानः प्रमीयेत यत् प्रतीचीनं पत्नी कं घर्मम् अभ्युदवीवसा इति ब्रह्मवादिनो वदन्त्य् उदीचीनम् एवोद्वास्यम् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतश् चतुर् उन्नयति चतुष्पदस् तेन पशून् अवरुन्द्धे द्विर् जुहोति द्विपदस् तेन यं कामयेतानुज्येष्ठं प्रजया ऋध्नुयाद् इति तस्य पूर्णम् अग्रा उन्नयेद् अथ कनीयो ऽथ कनीयो ऽनुज्येष्ठं प्रजया ऋध्नोति तद् आहुः कनीयांसं वा एष यज्ञक्रतुम् उपैति कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् भवति सम्मितम् इवाग्रा उन्नयेद् अथ भूयो ऽथ भूयः पूर्णम् उत्तमं यज्ञस्याभिक्रान्त्यै तद् आहुर् ज्यायांसं वा एष यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् अर्धुको ऽस्य पुत्रः कनिष्ठो भवतीति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् समावद् उन्नयेत् सर्वे ह सदृशा भवन्ति न पश्चाद् उपसादयेद् अपक्रान्तिः सा यज्ञस्य यत्रैवोन्नयेत् तत् सादयेत् प्रतरं वा यज्ञस्याभिक्रान्त्यय् अनुध्यायिनं वा एतद् अपरं करोति यद् अपरस्मिंस् तपन्ति पूर्वस्मिन् जुह्वति समयाग्निं हरन्ति तेनैवैनं प्रीणात्य् अथो अग्निहोत्रस्य वा एतत् पवित्रम् अपुपोद् एवैनद् अपरस्माद् वै पूर्वं सृष्टं तम् एतावत्य् अरमयंस् तस्मात् पुरो ऽनुद्रुत्य जुहोति ॥
प्रजां : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
भवति : फ़्न् प्रोबब्ल्य् भवतीति। च्फ़्। बेलोw १२०।४
अर्धुको : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
आयुर् मे यछ ॥ इति सादयत्य् आयुर् एवास्मिन् यछति ॥