अष्टमीम् अजुहोत् ततो वसन्तो ऽसृज्यत नवमीम् अजुहोत् ततो ग्रीष्मो ऽसृज्यत दशमीम् अजुहोत् ततो वर्षा असृज्यन्तैकादशीम् अजुहोत् ततः शरद् असृज्यत द्वादशीम् अजुहोत् ततो हेमन्तो ऽसृज्यतोद्यता त्रयोदश्य् आहुतिर् आसीद् अथ शिशिरम् असृज्यत तस्माद् एतद् ऋतूनाम् अशान्तं क्रूरम् अहुताद् धि समभवद् अहुताद् असृज्यत तद् आहुर् ब्रह्मवादिन ऋतवः पूर्वे ऽसृज्यन्ता३ पशवा३ इत्य् उत ऋतव उत पशवा इति ब्रूयाद् उभये ह्य् एते सहासृज्यन्त स वा एनम् इत एव पुनः प्राविशद् एतद् वा अग्निधानं हस्तस्य यत् पाणिस् तस्माद् एतो हस्तस्याग्निर् नतमां विदहति यद् धन्यमानो हस्तौ प्रतिप्रसारयत्य् अग्नौ वा एतन् न्यञ्चनम् इछते ऽग्निं वै पशवः प्रविशन्त्य् अग्निः पशून् प्र ह वा एनं पशवो विशन्ति प्र स पशून् य एवं वेदैतद् ध स्म वा आह नारदो यत्र गां शयानां निर्जानाति मृताम् एनाम् अविद्वान् मन्यता इत्य् अग्निं ह्य् एवैते प्रविशन्त्य् अग्निर् एतांस् तस्मात् सर्वान् ऋतून् पशवो ऽग्निम् अभिसर्पन्ति न ह्य् एत ऋते ऽग्नेर् यज् जातः पशून् अविन्दत तज् जातवेदसो जातवेदस्त्वं ताम् अप्सु प्रासिञ्चत् सापो ऽन्वदहत् ता अग्नये वज्रो ऽभवंस् तस्माद् धवींषि प्रोक्षताग्निर् अभि न प्रोक्ष्यो यद् अभिप्रोक्षेद् धतेन यज्ञेन यजेत तां वै प्रजापतिर् अन्वैछत् ताम् अप्स्व् अन्वविन्दत् ताम् ओषधीषु न्यमार्ट् तस्माद् ओषधयो ऽनभ्यक्ता रेभन्त ओषधीभ्यः पशवः पशुभ्यो मनुष्या अनभ्यक्तो ह रेभते य एवं वेद तद् यो वसन्ताशिशिरे कक्षः स उपाधेय एतद् वै तद् अग्नेः प्रियं धामैषा वाव साहुतिः श्रायत्य् अग्नेर् एवैतया प्रियं धामोपैत्य् अथो पशुमान् भवत्य् अथो आत्मानम् एवैतया यजमानः पुनीते सह वा एता आस्ताम् अग्निश् च सूर्यश् च समाने योना अयसि लोहिते स आदित्य ऊर्ध्व उदद्रवत् तस्य रेतः परापतत् तद् अग्निर् योनिनोपागृह्णात् तद् एनं व्यदहत् तस्माद् अयो ऽत्रपु प्रतिधुक् क्षीरं विदहति तस्माद् एतज् जुह्वति पशूनां वा एतत् पयो यद् व्रीहियवौ तस्माद् एतज् जुह्वति नातिशृतं कार्यं रेतः शोषयेद् यद् विष्यन्देतोन्मादुको ऽस्य प्रजायाम् आजायेतामुष्य वा एतद् आदित्यस्य रेतो हूयते ऽमेध्यम् अशृतं समुदन्तं होतव्यं तद् धि शृतं मेध्यं मिथुनं प्रजनिष्णु ॥म्स्_१,८।२॥
इति : फ़्न् एमेन्देद्। एद्।: मन्यते ऽति