प्रजापतिः प्रजा असृजत स वा अग्निम् एवाग्रे मूर्धतो ऽसृजत स यतो ऽग्निम् असृजत तत् पर्यमार्ट् ततो लोहितम् अवाहरत् तन् न्यमार्ट् तत उदुम्बरः समभवत् तस्माद् उदुम्बरः प्राजापत्यस् तस्माल् लोहितं फलं पच्यते सो ऽस्मात् सृष्टः पराङ् ऐद् भागधेयम् इछमानः स तद् एव नाविन्दत् प्रजापतिर् यद् अहोष्यत् स स्वं चक्षुर् आदायाजुहोत् ॥ अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति तद् वा अदश् चक्षुर् मन्यन्ते यद् असा आदित्यो ऽमुं वा एतद् अस्मिन् जुह्वतो मन्यन्ते सत्यं वै चक्षुः सत्येनाग्निहोत्रं जुहोति य एवं विद्वान् जुहोति भविष्णुः सत्यं भवति य एवं वेद कस्मै कम् अग्निहोत्रं हूयता इति ब्रह्मवादिनो वदन्त्य् अग्नये वा एतद् धृत्यै गुप्त्यै हूयते यत् सायं जुहोति रात्र्यै तेन दाधार यत् प्रातर् अह्ने तेनाग्नौ सर्वान् यज्ञान्त् संस्थापयन्त्य् अथ कस्माद् एतद् एवाग्निहोत्रम् उच्यता इति ब्रह्मवादिनो वदन्ति होत्रा वै देवेभ्यो ऽपाक्रामन्न् अग्निहोत्रे भागधेयम् इछमाना यत् ॥ अग्निहोत्रम् ॥ इत्य् आह तेन होत्रा आभजति तेनैना भागिनीः करोत्य् एषा वा अग्रे ऽग्ना आहुतिर् अहूयत तद् अग्निहोत्रस्याग्निहोत्रत्वं सो ऽस्मात् सृष्टः पराङ् ऐद् भागधेयम् इछमानः स तद् एव नाविन्दत् प्रजापतिर् यद् अहोष्यत् तं स्वा वाग् अभ्यवदद् जुहुधीति स इत एवोन्मृज्याजुहोत् ॥ स्वाहा ॥ इति स्वा ह्य् एनं वाग् अभ्यवदत् तत् स्वाहाकारस्य जन्म तस्माद् अग्निहोत्रे स्वाहाकारस् तस्माल् ललाटे च पाणौ च लोम नास्त्य् अतो हि स तद् आदायाजुहोत् तस्माद् यस्य दक्षिणतः केशा उन्मृष्टास् तम् आहुर् ज्येष्ठलक्ष्मीति प्रजापतिर् ह्य् एतद् अग्रे ज्येष्ठ उदमृष्टानेन सम्मिता स्रुक् कार्यानेन वा अग्रे ऽग्ना आहुतिर् अहूयत तस्या आहुत्याः पुरुषो ऽसृज्यत द्वितीयाम् अजुहोत् ततो ऽश्वो ऽसृज्यत तस्माद् अश्व उभयादन्न् अनन्तर्हितो हि पुरुषाद् असृज्यत तस्माद् एनं प्रत्यञ्चं तिष्ठन्तं मन्यन्ते ऽश्वो नू पुरुषा इति तृतीयाम् अजुहोत् ततो गौर् असृज्यत चतुर्थीम् अजुहोत् ततो ऽविर् असृज्यत पञ्चमीम् अजुहोत् ततो ऽजासृज्यत षष्ठीम् अजुहोत् ततो यवो ऽसृज्यत सप्तमीम् अजुहोत् ततो व्रीहिर् असृज्यतैते सप्त ग्राम्याः पशवो ऽसृज्यन्त तान् एवावरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति ॥म्स्_१,८।१॥