०५

वीरहा वा एष देवानां यो ऽग्निम् उत्सादयते शतदायो वीरो यद् एताः शताक्षराः पङ्क्तयो भवन्ति वीरं वावैतद् देवानाम् अवदयते ऽन्यस्मै वै कम् आधेयम् अन्यस्मै पुनराधेयं न वै तद् आधेयेन स्पृणोति यस्मै कं पुनराधेयं पुनराधेयेन वाव तत् स्पृणोति जरा वै देवहितम् आयुर् एतावतीर् हि समा एति यद् एताः शताक्षराः पङ्क्तयो भवन्ति यावद् एवायुर् वीर्यं तद् आप्नोति तत् स्पृणोति तद् अवरुन्द्ध आयुषा वा एष वीर्येण व्यृध्यते यो ऽग्निम् उत्सादयत आयुर् वीर्यं हिरण्यं यद् धिरण्यं ददात्य् आयुषैवैनं वीर्येण समर्धयति शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोत्य् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् ते व्यतृष्यन्न् इतःप्रदानाद् धि देवा यज्ञम् उपजीवन्ति ते वा एतं पुनर् आदधत त आर्ध्नुवन्न् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन् पशवो ऽस्मिन्न् ऋतवो ऽमुष्मिंस् तद् य एवं विद्वान् पुनराधेयम् आधत्त उभयोर् एव लोकयोर् ऋध्नोत्य् अस्मिंश् चामुष्मिंश् च सलिलः सलिगः सगरस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा केतः सुकेतः सकेतस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा देवजूते विवस्वन्न् आदित्य ते नो देवाः सत्यां देवहूतिं देवेष्व् आसुवध्वम् आदित्येभ्यः स्वाहेत्य् एतैर् वै ते तं पुनर् आदधत त आर्ध्नुवंस् तद् यद् एतैः पुनर् आधत्ते ऽथ ऋध्नोत्य् आदित्या हि पुनराधेयम् ॥म्स्_१,७।५॥