०४

इत्य् उपरिष्टाद् अनुयाजानां जुहुयाद् ऊर्जा वा एष पशुभिर् उत्सीदन्त् सहोत्सीदति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे ऽथो तान् एव भागिनः करोत्य् अथो उभयत एष यज्ञस्याशिष ऋध्नोति नानाग्नेयं क्रियते ऽथ कस्माद् आज्यभागा इज्येते इति चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ यद् आज्यभागा अन्तरियाच् चक्षुषी यज्ञस्यान्तरियाद् अग्ना आयूंषि पवसा इति सोमस्य लोके कुर्याद् यद् आग्नेयी तेनाग्नेयी यत् पावमानी तेन सौमी नानाग्नेयं क्रियते न सोमम् अन्तर्यन्त्य् अग्निर् मूर्धा दिवः ककुद् इति प्रजाकामो वा पशुकामो वा सोमस्य लोके कुर्याद् यन् मिथुना तेन प्रजननवती यद् रेतस्वती तेन सौमी यज्ञेन वा एष व्यृध्यते यो ऽग्निम् उत्सादयते पाङ्क्तो यज्ञो यत् पञ्चकपालो यज्ञम् एव पुनर् आलभते ऽष्टाकपालः कार्यो गायत्रो ह्य् अग्निर् गायत्रछन्दा आग्नेयं वा एतत् क्रियते यत् पुनराधेयं तस्माद् अष्टाकपालस् तन् न सूर्क्ष्यं पञ्चकपाल एव कर्यः पञ्चमाद् वा अध्य् ऋतोः षष्ठ ऋतुर् अभवत् समानम् एतद् यत् पञ्चमश् च ऋतुः षष्ठश् च यत् पञ्चकपालः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे प्रजननं वा ऋतवो ऽग्निः प्रजनयिता यत् पञ्चकपालः प्रजननाद् एवैनं प्रजनयिता प्रजनयति ॥म्स्_१,७।४॥
वा : फ़्न् एमेन्देद्। एद्।: वा