अग्निर् वा उत्सीदन्त् संवत्सरम् अभ्युत्सीदति सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे तद् आहुः पञ्चदश सामिधेनीः कार्या न सप्तदशेत्य् एतद् वै संवत्सरस्य सङ्क्रमणतमम् एतेनाशिष्टम् आप्यते पञ्चदश सामिधेनीः पञ्चदशार्धमासस्य रात्रयस् ताभिर् एव ता आप्यन्ते यावन्ति वै सामिधेनीनाम् अक्षराणि तावन्ति संवत्सरस्याहानि तैर् एव तान्य् आप्यन्ते ऽग्निर् वा उत्सीदन्त् संवत्सरम् अभ्युत्सीदति षड् वा ऋतवः संवत्सरस् तस्मात् षड् विभक्तयः संवत्सरो वा अग्निर् वैश्वानरो यत् षड् विभक्तयः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे ऽथ यद् अग्निर् बहुधा विह्रियत इमान् पोषान् पुपोष तस्माद् अग्निर् एतावतीर् विभक्तीर् आनशे नान्या देवताथ यद् द्व्यक्षराः सतीश् चतुरक्षराः क्रियन्त आचतुरं हि पशवो द्वन्द्वं मिथुना ऋतवो वै प्रयाजा अन्नम् ऋतवो यत् प्रयाजान् अन्तरियाद् अन्नम् अन्तरियाद् यज्ञमुखं वै प्रयाजा यत् प्रयाजान् अन्तरियाद् यज्ञमुखम् अन्तरियात् तद् यस्येर्त्सेत् तस्योपरिष्टात् प्रयाजानां विभक्तीः कुर्याद् वीर्यं वै प्रयाजा वीर्यं विभक्तयो वीर्याद् एवाधि वषट्करोति ताजग् ऋद्धिम् अभिक्रामति नानाग्नेयं क्रियते ऽथ कस्मात् सह विभक्तयः प्रयाजैर् इति संवत्सरं वै प्रयाजाः परीज्यन्ते कस्माद् आग्नेयं क्रियते तस्मान् नानाग्नेयं ॥म्स्_१,७।३॥
पुनर् ऊर्जा निवर्तस्व पुनर् अग्न इषायुषा ।
पुनर् नः पाह्य् अंहसः ॥
इति पुरस्तात् प्रयाजानां जुहुयात् ॥
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।
विश्वपन्या विश्वतस् परि ॥