०२

अग्नेर् वै भागः पुनराधेयम् एतं वै भागं प्रेप्सन् व्यर्धयति यद्य् आदधानो मन्येत वि स्या ऋध्यता इत्य् उत्साद्य पुनर् आदधीत यम् एव भागं प्रेप्सन् व्यर्धयति तं प्राप्यार्धयत्य् एव सर्वम् एवाग्नेयं क्रियते यत् किञ्च सर्वम् एवाग्नये भागं प्रदाय सर्वाम् ऋद्धिम् ऋध्नोति न सम्भाराः सम्भृत्या न यजुः कर्तवा इत्य् आहुः सम्भृतसम्भारो ह्य् एष कृतयजुस् तद् आहुः सम्भृत्या एव सम्भाराः कार्यं यजुर् इति पुनरुत्स्यूतं वासो देयं पुनर्णवो रथः पुनरुत्सृष्टो ऽनड्वान् एतानि वै पुनराधेयस्य रूपाणि रूपाण्य् एवास्याप्त्वावरुन्द्धे ऽग्निर् वा उत्सीदन्न् अप ओषधीर् अभ्युत्सीदति दर्भा वा आपा ओषधयो यद् दर्भा उपोलपा भवन्त्य् अद्भ्य एवैनम् ओषधीभ्यो ऽध्य् आप्त्वावरुन्द्धे देवा असुरैर् विजयम् उपयन्तो ऽग्नौ प्रियास् तन्वः सन्न्यदधत यन् नो जयेयुर् इमा अभ्युपधावेम यद्य् उ जयेमेमा अभ्युपावर्तेमहीति ता देवा जित्वान्वैछन् सर्वेषां नः सहेति सो ऽग्निर् अब्रवीद् य एव मां मद्देवत्य आदधातै स एताभिस् तनूभिः सम्भवाद् इति तं देवा आदधत त एताभिस् तनूभिः समभवत् पशवो वै देवानां प्रियास् तन्वः पशुभिर् एव समभवंस् तद् य एवं विद्वान् पुनराधेयम् आधत्त एताभिर् एवाग्नेस् तनूभिः सम्भवति पशवो वै देवानां प्रियास् तन्वः पशुभिर् एव सम्भवति मनुः पुष्टिकामा आधत्त स इमान् पोषान् अपुष्यत् तेन ऋद्धं त्वष्टा पशुकामा आधत्त त इमे त्वाष्ट्राः पशवः प्राजायन्त तेन ऋद्धं प्रजापतिः प्रजाकामा आधत्त ता इमाः प्रजाः प्राजापत्याः प्राजायन्त तेन ऋद्धं यो वै तम् अग्रा आधत्त स तेन वसुना समभवत् तत् पुनर्वसोः पुनर्वसुत्वं तस्मात् पुनर्वसा आधेयः पुनर् हि स तेन वसुना समभवद् यो वै तम् आधत्तार्ध्नोत् स तस्माद् अनुराधास्व् आधेय ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय ॥म्स्_१,७।२॥