१३

मनुर् वै प्रजाकामो ऽग्निम् आधास्यमानो देवतायैदेवताया अजुहोत् ततो मित्रावरुणयोर् आहुत्या प्रफर्व्य् उदतिष्ठत् तस्या घृतं पदोर् अक्षरत् सा मित्रावरुणा ऐत् ता अब्रूताम् आहुत्या वै त्वम् आवयोर् अजनिष्ठा मनोस् त्वै त्वम् असि तं परेहीति सा मनुम् ऐत् सो ऽब्रवीद् असुरा वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् ते ऽमुम् अग्रा आदधताथेमम् अथेमं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् अमुम् एवाग्रा आधिषताथेमम् अथेमम् इति सो ऽब्रवीत् सकृद् वावासुराः श्रियो ऽन्तम् अगुः परा तु भविष्यन्तीति सो ऽब्रवीद् देवा वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् त इमम् अग्रा आदधताथामुम् अथेमं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् इमम् एवाग्रा आधिषताथामुम् अथेमम् इति सो ऽब्रवीत् सकृद् वाव देवाः सर्वेण साकं स्वर्गं लोकं समारुक्षन्न् इतःप्रदानात् तु यज्ञम् उपजीविष्यन्तीति यः सर्ववेदसं दास्यन्त् स्यात् स इमम् अग्रा आदधीताथामुम् अथेमं तद् यथैव देवाः सर्वेण साकं स्वर्गं लोकं समारोहन्न् एवम् एव यजमानः सर्वेण साकं स्वर्गं लोकं समारोहति य एवं विद्वान् अग्निम् आधत्ते सो ऽब्रवीद् ऋषयो वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् त इमम् अग्रा आदधताथेमम् अथामुं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् इमम् एवाग्रा आधिषताथेमम् अथामुम् इति सो ऽब्रवीद् अहं वावाग्न्याधेयं विदाञ्चकार सर्वेषु वा एषु लोकेष्व् ऋषयः प्रत्यष्ठुर् इति प्रति प्रजया च पशुभिश् च तिष्ठति य एवं विद्वान् अग्निम् आधत्ते यद् अमुम् आधायेमम् आदध्याद् अप तद् आदध्याद् यद् वावेमम् आधायामुम् आदध्याद् अप तद् आदध्यात् तद् इमम् एवाधायाथेमम् अथामुं तथा समृद्धा आधीयते प्राचीनप्रवण आधेयस् तथा समृद्धा आधीयते प्राचीनं मध्यमाद् वंशाद् आधेयस् तथा समृद्धा आधीयते या वै सा प्रफर्व्य् आसीत् सा गौर् अभवत् सेडा सा मानवी घृतपदी मैत्रावरुणी ॥म्स्_१,६।१३॥
उदतिष्ठत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इतःप्रदानात् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यत् त्वा क्रुद्धः परोवप मन्युना सुमनस्तर ।
सुकल्पम् अग्ने तत् तव पुनस् त्वोद्दीपयामसि ॥

यत् ते मन्युपरोप्तस्य पृथिवीम् अनुदध्वसे ।
आदित्या विश्वे तद् देवा वसवः पुनर् आभरन् ॥

यत् ते भामेन विचकरानीशानो हृदस् परि ॥

पुनस् तद् इन्द्रश् चाग्निश् च वसवः समचीकॢपन् ॥

पुनस् त्वादित्या रुद्रा वसवः समिन्धतां पुनर् ब्रह्माणो वसुधीते अग्ने ॥

घृतेन त्वं तन्वं वर्धयस्व रायस्पोषा यजमानं सचन्ताम् ॥

त्रयस्त्रिंशत् तन्तवो यं वितन्वत इमं च यज्ञं सुधया ददन्ते ।
तेभिश् छिद्रम् अपिदध्मो यद् अत्र स्वाहा यज्ञो अप्येतु देवान् ॥

मनो ज्योतिर् जुषताम् आज्यस्य विछिन्नं यज्ञं सम् इमं दधातु ।
इमं यज्ञं सप्ततन्तुं ततं ना आ देवा यन्तु सुमनस्यमानाः ॥

बृहस्पतिर् नो हविषा घृतेन विछिन्नं यज्ञं सम् इमं दधातु ।
या इष्टा उषसो याश् च याज्यास् ताः सन्दधामि मनसा घृतेन ॥

अग्ने ऽभ्यावर्तिन्न् अभि मावर्तस्वायुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण ॥

अग्ने अङ्गिरः शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः ।
अथा पोषस्य पोषेण पुनर् नो नष्टम् आकृधि पुनर् नो रयिम् आकृथि ॥

पुनर् ऊर्जा निवर्तस्व पुन्र् अग्न इषायुषा ।
पुनर् नः पाह्य् अंहसः ॥

सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥