१२

यस्या रात्र्याः प्रातर् अग्निम् आधास्यमानः स्यात् तां रात्रीं चतुःशरावम् ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलम् इवोपहरेद् अदितिर् वै प्रजाकामौदनम् अपचत् सोञ्शिष्टम् आश्नात् तस्या धाता चार्यमा चाजायेतां सापरम् अपचत् सोञ्शिष्टम् आश्नात् तस्या मित्रश् च वरुणश् चाजायेतां सापरम् अपचत् सोञ्शिष्टम् आश्नात् तस्या अंशश् च भगश् चाजायेतां सापरम् अपचत् सैक्षतोञ्शिष्टं मे ऽश्नत्या द्वौद्वौ जायेते इतो नूनं मे श्रेयः स्याद् यत् पुरस्ताद् अश्नीयाम् इति सा पुरस्ताद् अशित्वोपाहरत् ता अन्तर् एव गर्भः सन्ता अवदताम् आवम् इदं भविष्यावो यद् आदित्या इति तयोर् आदित्या निर्हन्तारम् ऐछंस् ता अंशश् च भगश् च निरहतां तस्माद् एतौ यज्ञेन यजन्ते ऽंशप्रासो ऽंशस्य भागधेयं जनं भगो ऽगछत् तस्माद् आहुर् जनो गन्तव्यस् तत्र भगेन सङ्गछता इति स वा इन्द्र ऊर्ध्व एव प्राणमं उदश्रयत मृतम् इतरम् आण्डम् अवापद्यत स वाव मार्ताण्डो यस्येमे मनुष्याः प्रजा सा वा अदितिर् आदित्यान् उपाधावद् अस्त्व् एव म इदं मा म इदं मोघे परापप्तद् इति ते ऽब्रुवन्न् अथैषो ऽस्माकम् एव ब्रवातै न नो ऽतिमन्याता इति स वाव विवस्वान् आदित्यो यस्य मनुश् च वैवस्वतो यमश् च मनुर् एवास्मिंल् लोके यमो ऽमुष्मिन्न् एते वै देवयानान् पथो गोपायन्ति यद् आदित्यास् त इयक्षमाणं प्रतिनुदन्ते यो वा एतेभ्यो ऽप्रोच्याग्निम् आधत्ते तम् एते स्वर्गाल् लोकात् प्रतिनुदन्त उञ्शिष्टभागा वा आदित्या यद् उञ्शिष्टे विवर्तयित्वा समिध आदधाति तद् आदित्येभ्यो ऽग्न्याधेयं प्राह नैनं स्वर्गाल् लोकात् प्रतिनुदन्ते संवत्सरम् उत्सृजेताग्निम् आधास्यमानो नास्याग्निं गृहाद् धरेयुर् नान्यता आहरेयुः संवत्सरे वृद्धा गर्भाः प्रजायन्ते प्रजातम् एनं वृद्धम् आधत्ते द्वादश रात्रीर् उत्सृजेत द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरे वृद्धा गर्भाः प्रजायन्ते प्रजातम् एनं वृद्धम् आधत्ते तिस्र उत्सृजेत त्रयो वा इमे लोका इमान् एव लोकान् आप्नोत्य् एकाम् उत्सृजेतैको वै प्रजापतिः प्रजापतिम् एवाप्नोति पुरूरवा वा ऐड उर्वशीम् अविन्दत देवीं तस्या आयुर् अजायत स देवान्त् स्वर्गं लोकं यत्तो ऽनूदैत् ते ऽब्रुवंस् तद् वयं देवा इमः क्वायं मनुष्यो गमिष्यतीति सो ऽब्रवीद् बहवो वै मे समानास् ते मा वक्ष्यन्ति किम् अयं देव्याः पुत्रो देवेभ्यो मातुर्भ्रात्रेभ्या आहार्षीद् अस्त्व् एव मे किञ्चिद् इति तस्मा अग्निर् यज्ञियां तन्वं प्रायछत् ताम् उत्सङ्गे ऽवधायाहरत् ताम् उखायाम् अवादधात् सो ऽश्वत्थ आरोहो ऽभवद् योखा सा शमी तस्माद् एतौ यज्ञावचरौ पुण्यजन्मानौ ह्य् अग्निर् वै वरुणं ब्रह्मचर्यम् आगछत् प्रवसन्तं तस्य जायां समभवत् तं पुरस्ताद् आयन्तं प्रतिक्शाय प्रत्यङ् निरद्रवत् सो ऽवेत् सर्वं वा इन्द्रियं नृम्णं रेतो निर्लुप्य हरतीति तद् अनुपराहाय निरलुम्पद् यद् रेता आसीत् सो ऽश्वत्थ आरोहो ऽभवद् यद् उल्बं सा शमी तस्माद् एतौ यज्ञावचरौ पुण्यजन्मानौ हि प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत सो ऽश्वो भूत्वा संवत्सरं न्यङ् भूम्यां शिरः प्रतिनिधायातिष्ठत् तस्याश्वत्थो मूर्ध्न उदभिनत् तद् अश्वत्थस्याश्वत्थत्वं तस्माद् एष यज्ञावचरः प्राजापत्यो हि ॥म्स्_१,६।१२॥
प्राणमं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्: प्राणमान्।
मातुर्भ्रात्रेभ्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।