११

यं कामयेत पशुमान्त् स्याद् इति यो बहुपुष्टस् तस्य गृहाद् अग्निम् आहरेयुर् यथा वा एतं सृज्यमानं पशवो ऽन्वसृज्यन्तैवम् एनम् आह्रियमाणं पशवो ऽन्वायन्त्य् एष हि रुद्रो यद् अग्निर् अथ यं कामयेतान्नादः स्याद् इति तस्य भ्रष्ट्राद् दक्षिणाग्निम् आहरेयुर् एष वा अग्नीनाम् अन्नादो ऽन्नकरणं भ्रष्ट्रम् अन्नाद्यम् अस्मा अवरुन्द्धे तद् आहुर् यथा वृषलो निजः पुक्लकश् चिकित्सेद् एवं स इति स मथ्य एव स शं यजमानाय भवति शं पशुभ्यो यः सोमेनायक्ष्यमाणो ऽग्निम् आदधीत न पुरा संवत्सराद् धवींषि निर्वपेद् रुद्रो ऽस्य पशून् अभिमानुकः स्याद् एते वै पशवो यद् व्रीहयश् च यवाश् च तेषां चतुःशरावम् ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलम् इवोपहरेत् तद् याभ्यो देवताभ्यो ऽग्निम् आधत्ते यत् ताभ्यो न जुहुयात् ताभ्या आवृश्चेतानुध्यायी क्षोधुकः स्यात् ताभ्या आज्यस्य होतव्यं तेन ताभ्यो नावृश्चते ऽननुध्याय्य् अक्षोधुको भवति संवत्सरे हवींषि निर्वपति तद् अस्य संवत्सरान्तर्हितो रुद्रः पशून् न हिनस्ति संवत्सरम् अग्निहोत्रम् अहौषीत् तत् तपो ऽविदत् स सर्वेण साकं स्वर्गं लोकं समारुक्षत् त्रिर् वा इदं विराड् व्यक्रमत गार्हपत्यम् आहवनीयं सभ्यं तद् विराजम् आपद् अन्नं वै विराड् अन्नं वावैतद् आपन् मध्याधिदेवने राजन्यस्य जुहुयाद् वारुण्य ऋचा वरुणो वै देवानां राजा राज्यम् अस्मा अवरुन्द्धे हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाच् छतम् अस्मा अक्षान् प्रयच्छेत् तान् विचिनुयाच् छतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति गाम् अस्य तद् अहः सभायां दीव्येयुस् तस्याः परूंषि न हिंस्युस् तां सभासद्भ्या उपहरेत् तया यद् गृह्णीयात् तद् ब्राह्मणेभ्यो देयं तत् सभ्यम् अन्नम् अवरुन्द्धे ॥म्स्_१,६।११॥