१०

तत् सायं ज्योतिषा रेतो मध्यतो हितं ॥ प्रातः प्रजनयाम् अकर् देवाश् च वा असुराश् च संयत्ता आसन्न् अथेन्द्रो ऽग्निम् आधत्त ते देवा अबिभयुर् अद एवासा अग्निं गोपायमानो ऽग्निहोत्रं गोपायमानो भविष्यति न ना उपैष्यत्य् अभि नो जेष्यन्तीति ते ऽब्रुवन् यद् एव त्वं किञ्च करवो यद् धना यज् जिना यद् विन्दासै तत् ते ऽग्निहोत्रं कुर्मो ऽथेहीति स वा ऐत् तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यं यद् ध्य् एवैष किञ्च करोति यद् धन्ति यज् जिनाति यद् विन्दते यद् एनं विश उपतिष्ठन्ते तद् राजन्यस्याग्निहोत्रं होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्ते यद् धुत्वा न जुहुयाद् वि यज्ञं छिन्द्याज् जीयेत वा प्र वा मीयेत पौर्णमासीम् अमावास्यां वा प्रति होतव्यम् अथो अग्न्युपस्थानं वा चयितव्यस् तेनास्य दर्शपूर्णमासौ सन्तता अविछिन्नौ भवतः ॥म्स्_१,६।१०॥