फल्गुनीपूर्णमासे ब्राह्मणस्यादध्यात् फल्गुनीपूर्णमासो वा ऋतूनां मुखम् अग्निर् देवतानां ब्राह्मणो मनुष्याणां ग्रीष्मे राजन्यस्यादध्याद् ग्रीष्मे वा इन्द्रो वृत्रम् अहन् वृत्रं खलु वै राजन्यो बुभूषन् जिघांसति शरदि वैश्यस्यादध्याद् अन्नं वै शरद् अन्नेन वैश्यो भद्रो भवत्य् अन्नाद्यम् अस्मा अवरुन्द्धे यद्य् अन्यस्मिन्न् ऋता आदधीत यदि वा अस्मै स एक ऋतुः शिवः स्याद् अथास्मा इतरे ऽशिवा दुर्योणा भवेयुस् तद् यस्येर्त्सेत् फल्गुनीपूर्णमास एव तस्यादध्यात् तद् अस्मै सर्व ऋतवः शिवा भवन्ति सर्व एनम् ऋतवो जिन्वन्ति संवत्सरस्य वा एतद् आस्यं यत् फल्गुनीपूर्णमास्यम् अहर् यत् फल्गुनीपूर्णमास्यम् अहर् आदध्यात् संवत्सरस्यैनम् आसन्न् अपिदध्याद् द्व्यहे वा पुरैकाहे वाधेयस् तद् द्वितीयस्य ऋतोर् अभिगृह्णाति नैनं संवत्सरस्यासन्न् अपिदधाति तद् यद् द्वितीयस्य ऋतोर् अभिगृह्णाति द्वितीयम् एव सपत्नस्य भ्रातृव्यस्येन्द्रियं पशून् क्षेत्रं वृञ्जान एति कृत्तिकासु ब्राह्मणस्यादध्याद् आग्नेयीः कृत्तिका आग्नेयो ब्राह्मणः स्व एवैनं योनौ स्वे ऽहन्न् आधत्ते प्रजापतेर् वा एतञ् शिरो यत् कृत्तिका अग्निर् आस्यं शीर्ष्णान्नम् अद्यते ऽन्नाद्यम् अस्मा अवरुन्द्धे सप्त कृत्तिकाः सप्त शीर्षन् प्राणाः प्राणान् अस्मिन् दधाति रोहिण्यां पशुकामस्यादध्यात् सोमस्य वा एतन् नक्षत्रं यद् रोहिणी सोमो रेतोधा रेतो ऽस्मिन् दधात्य् ऋक्षा वा इयम् अग्र आसीत् तस्यां देवा रोहिण्यां वीरुधो ऽरोहयंस् तद् यथेमा अस्यां वीरुधो रूढा एवम् अस्मिन् पशवो रोहन्ति य एवं विद्वान् रोहिण्याम् अग्निम् आधत्ते रोहिण्यां स्वर्गकामस्यादध्याद् रोहिण्यां वै देवाः स्वर् आयन् स्वर् एवैति कालकाञ्जा वा असुरा इष्टका अचिन्वत दिवम् आरोक्ष्यामा इति तान् इन्द्रो ब्राह्मणो ब्रुवाण उपैत् स एताम् इष्टकाम् अप्य् उपाधत्त प्रथमा इव दिवम् आक्रमन्ताथ स ताम् आबृहत् ते ऽसुराः पापीयांसो भवन्तो ऽपाभ्रंशन्त या उत्तमा आस्तां तौ यमश्वा अभवतां ये ऽधरे त ऊर्णावाभयो यां ताम् इष्टकाम् आबृहत् सा चित्राभवद् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स चित्रायाम् अग्निम् आदधीत तद् यथैतस्याम् आवृढायाम् असुराः पापीयांसो भवन्तो ऽपाभ्रंशन्तैवम् अस्य सपत्नो भ्रातृव्यः पापीयान् भवन्न् अपभ्रंशते य एवं विद्वांश् चित्रायाम् अग्निम् आधत्ते यः कामयेत भग्य् अन्नादः स्याम् इति स पूर्वासु फल्गुनीष्व् अग्निम् आदधीत भगस्य वा एतद् अहर् यत् पूर्वाः फल्गुनीर् भग्य् अन्नादो भवत्य् अथ यः कामयेत दनकामा मे प्रजाः स्युर् इति स उत्तरासु फल्गुनीष्व् अग्निम् आदधीतार्यम्णो वा एतद् अहर् यद् उत्तराः फल्गुनीर् दानम् अर्यमा दानकामा अस्मै प्रजा भवन्ति तासु राजन्यस्यादध्याद् दानं ह्य् एष प्रजानाम् उपजीवति दानम् अर्यमा दानकामा अस्मै प्रजा भवन्ति प्रजापतेर् वा एतौ स्तनौ यत् पौर्णमासी चामावास्या च यत् पौर्णमास्यां वामावास्यायां वाग्निम् आधत्ते प्रजापतिम् एव प्रत्तं दुहे देवानां वा एते सदोहविर्धाने यत् पौर्णमासी चामावास्या च यत् पौर्णमास्यां वामावास्यायां वाग्निम् आधत्त उभे पुण्याहे उभे यज्ञिये ॥म्स्_१,६।९॥
न पुरा सूर्यस्योदेतोर् मन्थितवय् असुर्यो विदेवा आधीयत उद्यत्सु रश्मिषु मथ्यस् तत् सदेवः सेन्द्र उभयोर् अह्नो रूप आधीयते चतुर्विंशत्यां प्रक्रमेष्व् आधेयश् चतुर्विंशत्यक्षरा वै गायत्री गायत्रम् अग्नेश् छन्दः स्व एवैनं योनौ स्वे छन्दस्य् आधत्ते तद् यस्येर्त्सेद् अपरिमित एव तस्यादध्यात् क्षेष्णु वै परिमितम् अपरिमितम् एवास्मै जीवनम् अवरुन्द्धे अग्निर् वै सृष्टः प्रजापतेर् अध्य् उदक्रामत् स प्रजापतिर् अबिभेद् अद एवासा अभूद् इदम् अहम् इति तस्मिन्न् अनुनिष्क्रम्याजुहोद् एतर्हि खलु वा एष सृज्यते यर्ह्य् आधीयते तद् आहुर् अम्ण एवानुद्रुत्याथाग्निहोत्रं होतव्यम् इति तन् नैवं कर्तवय् अयतं तत् कुण्ड्याग्रीयं तद् यज्ञस्य क्रियते यद् योनेः परम् अवरं कुर्याद् अप्रजनिष्णुः स्याद् धवींष्य् एव पूर्वाणि निरुप्याथ सायम् अग्निहोत्रं जुहुयात् ॥
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति तत् सायं ज्योतिषा रेतो मध्यतो दधाति ॥
सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ॥ इति प्रातस् ॥