०८

अग्निं वै सृष्टं प्रजापतिः पवमानेनाग्रा उपाधमद् यत् पवमानाय निर्वपत्य् उपैवैनं तद् धमति यत् पावकाय पुनात्य् एनं यञ् शुचये यद् एवास्यापूतं तद् एतेन पुनाति यत् पवमानाय निर्वपति पशवो वै पवंअनः पशून् एवावरुन्द्धे यत् पावकायान्नं वै पावकम् अन्नम् एवावरुन्द्धे यञ् शुचये पूत एवास्मिन् रुचं दधाति यं कामयेतापतरं पापीयान्त् स्याद् इति तस्यैकमेकं हवींसि निर्वपेत् तद् एनम् अपाग्रहीत् तेन सो ऽपतरं पापीयान् भवत्य् अथ यं कामयेत न वसीयान्त् स्यान् न पापीयान् इति तस्य सर्वाणि साकं हवींषि निर्वपेत् तद् एनं संरुणद्धि तेन स न वसीयान् न पापीयान् भवत्य् अथ यं कामयेद् उत्तरं वसीयाञ् श्रेयान्त् स्याद् इति तस्याग्नये पवमानाय निरुप्याथ पावकाय च शुचये चोत्तरे हविषी समानबर्हिषि निर्वपेत् तद् एनम् उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवत्य् अथ यस्य त्रिष्टुभौ वानुष्टुभौ वा जगती वा संयाज्ये स्याताम् अति गायत्रं क्रामेद् अर्वाक् छन्दोभ्यो ऽवपद्येत तद् यस्येर्त्सेद् गायत्र्या एव तस्य संयाज्ये कुर्याद् गायत्रो ह्य् अग्निर् गायत्रछन्दाः स्व एवैनं योनौ स्वे छन्दसि प्रतिष्ठापयत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुं निर्वपेद् यद् विष्णवे विष्णुर् वै यज्ञो यज्ञम् एवालब्ध यञ् शिपिविष्टं पशवो वै शिपिविष्टं पशून् एवावरुन्द्धे यत् त्र्युद्धौ त्रयो वा इमे लोका इमान् एव लोकान् आप्नोति यद् घृते तेजो वै घृतं तेज एवावरुन्द्ध आदित्यं घृते चरुं निर्वपेत् पशुकामो धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यय् अग्नीषोमीयं पुरोडाशं द्वितीयम् अनुनिर्वपेत् तद् भूयो हव्यम् उपागान् नो अस्यान्य ईशे यर्हि वा एतं पुरा ब्राह्मणा निरवपंस् तर्ह्य् एषां न कश् चनैश न हि वा एतम् इदानीं निर्वपन्त्य् अथैषां सर्व ईशे यद् आग्नेयस् तेजो वा अग्निस् तेज एवावरुन्द्धे यत् सौम्यः सोमो वै शुक्रो ब्रह्मवर्चसं ब्रह्मवर्चसम् एवावरुन्द्धे तद् यो ऽसा आदित्यो घृते चरुस् तं ब्रह्मणे परिहरेयुस् तं चत्वारः प्राश्नीयुस् तेभ्यः समानो वरो देयश् चतुर् वा इदम् अग्रे मिथुनम् औद्यतैकश् चैका च द्वौ च द्वे च त्रयश् च तिस्रश् च चत्वारश् च चतस्रश् च तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै ॥म्स्_१,६।८॥