इति हव्यावाहम् एवैनम् अकर् अग्नेर् वै सृष्टस्य पशवो ऽक्ष्या अवक्शाय प्रापतन् स प्रजापतिर् वारवन्तीयम् असृजत तान् अवारयतैतर्हि खलु वा एष सृज्यते यर्ह्य् आधीयते तद् यथैतस्मात् सृष्टात् पशवः प्रापतन्न् एवम् अस्माद् आहितात्पशवः प्रपतन्त्य् एष हि रुद्रो यद् अग्निस् तद् य एवं विद्वान् वारवन्तीयं गायते पशून् एव वारयते वारवन्तीयं वै सृष्ट्वा प्रजापतिर् यं कामम् अकामयत तम् आर्ध्नोत् तम् एव कामम् ऋध्नोति यजमानो यं कामं कमयमानो ऽग्निम् आधत्ते य एवं विद्वान् वारवन्तीयं गायते ऽग्निर् वै क्रव्याद् विश्वदाव्य इमांल् लोकान् अदहत् तं प्रजापतिर् वारवन्तीयं गायमानो वरणं बिभ्रत् प्रत्यैत् तम् अशमयद् यद् एवास्य क्रव्याद् यद् विश्वदाव्यं तञ् शमयति य एवं विद्वान् वारवन्तीयं गायते तस्माद् वरणो यज्ञावचरः स्यान् न त्व् एनेन जुहुयाद् यद् वा इदं सद् यद् भूतं यद् भवद् यद् भविष्यद् यद् इमे अन्तरा द्यावापृथिवी तद् वामदेव्यं तद् एवावरुन्द्धे य एवं विद्वान् वामदेव्यं गायते ब्रह्मणो वा एष रसो यद् यज्ञायज्ञियं यद् यज्ञायज्ञियं गायते ब्रह्मण्य् एव रसं दधाति ॥म्स्_१,६।७॥