०५

भूर् भुवः स्वः ॥ इतीदं वाव भूर् इदं भुवो ऽदः स्वस् तद् यो ब्राह्मण आङ्गिरसः स्यात् तस्यादध्याद् भूर् भुवो ऽङ्गिरसां त्वा देवानां व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् अथ यो ब्राह्मणो वैश्वानरः स्यात् तस्यादध्याद् भूर् भुवो ऽग्नेष् ट्वा देवस्य व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् अथ राजन्यस्यादध्याद् भूर् भुव इन्द्रस्य त्वा मरुत्वतो व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् ऐन्द्रो वै राजन्यो देवतया मारुती विड् विशा खलु वै राजन्यो भद्रो भवति विशम् अस्मा अवरुन्द्धे ऽथ वैश्यस्यादध्याद् भूर् भुवो मनोष् ट्वा ग्रामण्यो व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् ग्रामणीथ्येन खलु वै वैश्यो भद्रो भवति ग्रामणीथ्यम् अस्मा अवरुन्द्धे ऽग्निर् वै सृष्ट उल्बम् अपलुम्पं नाशक्नोत् तस्य प्रजापतिर् आग्नेयपावमानीभिर् उल्बम् अपालुम्पद् यद् आग्नेयपावमानीभिर् आश्वत्थीः समिध आदधात्य् उल्बम् एवास्यापलुम्पति पुनात्य् एनं यथा शिशुं माता रेढि वत्सं वा गौर् एवम् एनं रेढ्य् अग्नेर् वै सृष्टस्य तेजा उददीप्यत तद् अश्वत्थं प्राविशद् यद् आश्वत्थीः समिध आदधाति तेज एवावरुन्द्धे ऽग्निर् वै सृष्टो बिबिबाभवन्न् अतिष्ठद् असमिध्यमानः स प्रजापतिर् अबिभेन् मां वावायं हिंसिष्यतीति तं शम्या समैन्धत् तम् अशमयत् तञ् शम्याः शमीत्वं यञ् छमीमयीः समिध आदधाति सम् एनम् इन्द्धे शमयत्य् एव स शं यजमानाय भवति शं पशुभ्यो देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठद् यद् औदुम्बरीं समिधम् आदधात्य् ऊर्जम् एवावरुन्द्धे ॥म्स्_१,६।५॥