०४

अग्निं वै देवा विभाजं नाशक्नुवन् यत् प्राञ्चम् अहरन्त् सर्वः पुरो ऽभवद् यत् प्रत्यञ्चम् अहरन्त् सर्वः पश्चाभवत् तम् अश्वेन पूर्ववाहोदवहंस् तद् अश्वस्य पूर्ववाहः पूर्ववाट्त्वम् अग्नेर् वै विभक्त्या अश्वो ऽग्न्याधेये दीयते ऽविभक्तो वा एतस्याग्निर् अनाहितो यो ऽश्वम् अग्न्याधेये न ददात्य् अथ यो ऽश्वम् अग्न्याधेये ददाति विभक्त्यै विभाज्यैवैनम् आधत्ते स्तोमपुरोगवा वै देवा असुरान् अभ्यजयन्न् एष खलु स्तोमो यद् अश्वो यद् अश्वं पुरस्तान् नयन्त्य् अभिजित्वय् अभिजित्यैवैनम् आधत्ते प्रजापतेर् वै चक्षुर् अश्वयत् तस्य यः श्वयथा आसीत् सो ऽश्वो ऽभवद् यद् अश्वं पुरस्तान् नयन्ति यजमानायैव चक्षुर् दधाति न पराङ् अवसृज्यो यत् पराञ्चम् अवसृजेद् यजमानं चक्षुर् जह्याद् अन्धः स्यात् प्रत्यवगृह्याधेयो यजमानायैव चक्षुः प्रत्यवाग्रहीन् न पद आधेयो वास्तव्यं कुर्याद् रुद्रो ऽस्य पशून् अभिमानुकः स्यात् पार्श्वत इतो वेतो वाधेयो न वास्तव्यं करोत्य् अघातुको ऽस्य पशुपतिः पशून् भवति गायत्रीं वै देवा यज्ञम् अछ प्राहिण्वन् सा रिक्तागछत् तस्या अग्निस् तेजः प्रायछत् सो ऽजो ऽभवद् यद् अजम् अग्न्याधेये ददाति तेज एवावरुन्द्धे ऽग्नीधे देयो यज्ञमुखं वा अग्नीद् यज्ञमुखेनैव यज्ञमुखं समर्धयति धेनुं चानड्वाहं च ददाति तत् सर्वं वयो ऽवरुन्द्ध एतद् वै सर्वं वयो यद् धेनुश् चानड्वांश् चैतौ वै यज्ञस्य माता च पिता च यद् धेनुश् चानड्वांश् चाज्यं च पयश् च धेन्वाः पुरोडाशश् च चरुश् चानडुहस् तद् आहुः कामदुघां वा एषो ऽवरुन्द्धे यो ऽग्न्याधेये धेनुं चानड्वाहं च ददातीति तद् येषां पशूनां भूयिष्ठं पुष्टिं कामयेत तेषां दित्यौहीं वयसो दद्याद् दित्यवाहं च मुष्करं तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै वाग् वै सोमक्रयणी दित्यौही वयसः सोमक्रयणी यद् दित्यौहीं वयसो ददाति वाचम् एवावरुन्द्धे चारु वदति य एवं वेदोपबर्हणं सर्वसूत्रं देयं छन्दसां वा एतन् निरूपं यद् उपबर्हणं सर्वसूत्रं यद् उपबर्हणं सर्वसूत्रं ददाति छन्दांस्य् एवावरुन्द्धे पशवो वै छन्दांसि पशून् एवावरुन्द्धे ऽयज्ञियो वै अमेध्य आहनस्याज् जायते पुरुषक्षीरं धयति हिरण्यं ददात्य् आत्मानम् एव तेन पुनीते शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति पूर्वयोर् हविषोर् द्वे त्रिंशन्माने देये उत्तरस्मिंश् चत्वारिंशन्मानं तद् एनम् उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवत्य् अजातो वै तावत् पुरुषो यावद् अग्निं नाधत्ते स तर्ह्य् एव जायते यर्ह्य् अग्निम् आधत्ते क्षौमे वसाना अग्निम् आदधीयातां ते अध्वर्यवे देये उल्बस्य वा एतन् निरूपं यत् क्षौमम् उल्बम् एवापलुम्पेते हिरण्यं सुवर्णम् उपास्याग्निर् आधेयो हिरण्यं वा अग्नेस् तेजः सतेजसम् एवैनम् आधत्ते तन् न निरस्तवै यथानुहितं निरस्येद् एवं तद् यन् निरस्येद् अनुध्यायी क्षोधुकः स्यात् तन् न निरस्तवय् अननुध्याय्य् अक्षोधुको भवति ॥म्स्_१,६।४॥
करोति : फ़्न् ह्, ब्ब्। एद् (म्१, म्२): करोति। च्फ़्। १।६।४:९२।८

यो वा अस्यायं मनुष्यो ऽग्निर् एतम् उपासीनो ऽन्नम् अत्त्य् एतम् उपासीनः प्रजां विन्दत एतम् उपासीनं पशवा उपतिष्ठन्ते यद् एतम् अभागधेयम् उत्सादयेत तस्मा आवृश्चेतानुध्यायी क्षोधुकः स्यात् तद् ये वनस्पतय आरण्या आद्यं फलं भूयिष्ठं पच्यन्ते तस्य पर्णाभ्यां यवमयश् चापूपो व्रीहिमयश् च सङ्गृह्योपास्याधेयस् तद् एनं द्वयं भागधेयम् अभ्युत्सादयाम् अकर् ग्राम्यं चारण्यं च तेन तस्मै नावृश्चते ऽननुध्याय्य् अक्षोधुको भवति यवो वै पूर्व ऋतुमुखे पच्यत इतः खलु वा एतं प्राञ्चम् उद्धरन्ति तस्माद् यवमयः पश्चोपास्यो व्रीहिमयः पुरस् तद् यस्येर्त्सेद् यवमयम् एव तस्य पश्चोपास्येद् व्रीहिमयं पुरः प्रजापतेर् वा एतौ स्तनौ यज्ञम् अस्य देवा उपजीवन्ति वर्षं मनुष्या अन्नाद्यम् अस्मा अवरुन्द्धे ऽक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेदैतद् ध स्म वा आह केशी सात्यकामिः केशिनं दार्भ्यम् अन्नादं जनतायय् एवम् इव वयम् एतस्मा अग्न्याधेये ऽन्नम् अवारुध्म यथैषो ऽन्नम् अत्ति तद् आहुः सर्वं वावैतस्येदम् अन्नं यजमानं त्व् एवास्यैतद् आसन्न् अपिदधाति तद् एवं वेदितोर् न त्व् एवं कर्तवा इति त्रिर् वा इदं प्रजापतिः सत्यं व्याहरत् ॥
मनुष्यो : फ़्न् एमेन्देद्। एद्।: मनुषो
अत्ति : फ़्न् एमेन्देद्। एद्।: उपासीतोन्नमति। म्२: उपासीनोन्न- । म्१: उपासीनोन्न-। ब्ब्: उपासीतोन्न-। अमनो, प्।२२३, न्।४७७