प्रजापतिर् वा इदम् अग्र आसीत् तं वीरुधो ऽभ्यरोहन्न् असुर्यो वा एता यद् ओषधयस् ता अतितिष्टिघिषन्न् अतिष्टिघं नाशक्नोत् सो ऽशोचत् सो ऽतप्यत ततो ऽग्निर् असृज्यत तम् अग्निं सृष्टं वीरुधां तेजो ऽगछत् ता अशुष्यन् न ततः पुराशुश्यन् स प्रजापतिर् अग्निम् आधत्तेमा एवासहा इति ता असहत तत् साढ्यै वावैष आधीयते तद् यथादो वसन्ताशिशिरे ऽग्निर् वीरुधः सहत एवं सपत्नं भ्रातृव्यम् अवर्तिं सहते य एवं विद्वान् अग्निम् आधत्त एतावद् वा अस्या अनभिमृतं यावद् वेदिः परिगृहीता ताम् उद्धत्याप उपसृज्याग्निम् आधत्ते यज्ञियाम् एवैनां मेध्यां कृत्वाधत्ते ऽग्नेर् वा इयं सृष्टाद् अबिभेद् अति मा धक्ष्यतीति यद् अप उपसृज्याग्निम् आधत्ते ऽस्या अनतिदाहायैषा वै प्रजापतेः सर्वता तनूर् यद् आपः सर्वत एनं प्रजाः सर्वतः पशवो ऽभि पुण्येन भवन्ति य एवं विद्वान् अप उपसृज्याग्निम् आधत्ते यावद् वै वराहस्य चषालं तावतीयम् अग्र आसीद् यद् वराहविहतम् उपास्याग्निम् आधत्त इमाम् एव तन् नापाराड् अस्या एनं मात्रायाम् अध्याधत्ते तस्माद् एषा वराहाय विम्रदत एष ह्य् अस्या मात्रां बिभर्ति देवपाणयो वै नामासुरा आसंस् ते देवगवीर् अपाजंस् ता अन्वगछंस् ता अभ्याजंस् तासां पयो ऽहीयत ते ऽब्रुवन् यद् वा आसां वरम् अभूत् तद् अहास्तेति तद् वराहो भूत्वासुरेभ्यो ऽधि देवान् आगछत् तस्माद् वराहं गावो ऽनुधावन्ति स्वं पयो जानानास् तद् यावत्प्रियम् एव पशूनां द्विपदां चतुष्पदां पयस् तावत्प्रियः पशूनां द्विपदां चतुष्पदां भवति य एवं विद्वान् वराहविहतम् उपास्याग्निम् आधत्त एतद् वा अस्या अनभिमृतं यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनम् अनभिमृते ऽध्याधत्ते रसो वा एषो ऽस्या उदैषद् यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनं रसे ऽध्याधत्त ऊर्ग् वा एषो ऽस्या उदैषद् यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनम् ऊर्ज् अध्याधत्ते प्रजापतेर् वा एष स्तनो यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते प्रजापतिर् एवास्मै स्तनम् अपिदधात्य् अन्नाद्यम् अस्मा अवरुन्द्धे ऽक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेदैतावद् वा अमुष्या इह यज्ञियं यद् ऊषा यद् ऊषान् उपकीर्याग्निम् आधत्ते ऽमुष्या एवैनं यज्ञिये ऽध्याधत्ते न वा अनूषरिहः पशवो रेतो दधत्ते यद् ऊषान् उपकीर्याग्निम् आधत्ते रेत एवैतद् दधाति पशूनां पुष्ट्यै प्रजात्यय् एष वा अग्निर् वैश्वानरो यद् असा आदित्यः स यद् इहासीत् तस्यैतद् भस्म यत् सिकता यत् सिकता उपकीर्याग्निम् आधत्ते स्व एवैनं योनौ स्वे भस्मन्न् आधत्ते शिथिरा वा इयम् अग्र आसीत् तां प्रजापतिः शर्कराभिर् अदृंहद् यञ् शर्करा उपकीर्याग्निम् आधत्त इमाम् एव तद् दृंहति धृत्यै तद् यथेमां प्रजापतिः शर्कराभिर् अदृंहद् एवम् अस्मिन् पशवो दृंहन्ते य एवं विद्वाञ् शर्करा उपकीर्याग्निम् आधत्त इन्द्रो वै वृत्राय वज्रं प्राहरत् तस्य या विप्रुषा आसंस् ताः शर्करा अभवन् यञ् शर्करा उपकीर्याग्निम् आधत्ते वज्रम् एव सपत्नाय भ्रातृव्याय प्रहरति यं द्विष्यात् तम् तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एव पुरीषीति वै गृहमेधिनम् आहुः पुरीषस्य खलु वा एतन् निरूपं यद् आखुकिरिर् यद् आखुकिरिम् उपकीर्याग्निम् आधत्ते पुरीषी गृहमेधी भवति ॥म्स्_१,६।३॥
आधत्ते : फ़्न् म्२। एद् (म्१, ह्, ब्ब्): आधत्ते