०१

अग्ना आयूंषि पवसे ऽग्निर् ऋषिर् अग्ने पवस्व ॥म्स्_१,६।१॥

या वाजिन्न् अग्नेः पवमाना प्रिया तनूस् ताम् आवह या वाजिन्न् अग्नेः पावका प्रिया तनूस् ताम् आवह या वाजिन्न् अग्नेः शुचिः प्रिया तनूस् ताम् आवह ॥

यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् ।
श्येना ते पक्षा हरिणोत बाहू उपस्तुत्यं जनिम तत् ते अर्वन् ॥

ओजसे बलाय त्वोद्यच्छे वृष्णे शुष्माय सपत्नतूर् असि वृत्रतूः ॥

प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो अग्निर् भवेह ।
विश्वा आशा दीद्यद् विभाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

अभ्यस्थां विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह ।
बृहस्पतिः सवितेन्द्रस् तद् आह पूषा ना आधात् सुकृतस्य लोके ॥

भुवः स्वर् अङ्गिरसां त्वा देवानां व्रतेनादधे ऽग्नेष् ट्वा देवस्य व्रतेनादध इन्द्रस्य त्वा मरुत्वतो व्रतेनादधे मनोष् ट्वा ग्रामण्यो व्रतेनादधे ॥

आछदि त्वा छन्दो दधे द्यौर् मह्नासि भूमिर् भूना ।
तस्यास् ते देव्य् अदित उपस्थे ऽन्नादम् अग्निम् अन्नपत्यायादधे ॥

यत् ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधे ॥

इडायास् त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो निधीमह्य् अग्ने हव्याय वोढवे ॥

सम्राट् च स्वराट् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ विराट् च प्रभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ विभूश् च परिभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊज्रं यछ ॥

समुद्राद् ऊर्मिर् मधुमं उदारद् उपांशुना सम् अमृतत्वम् आनट् ।
घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥

वयं नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवञ् शस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥

चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रेधा बद्धो वृषभो रोरवीति महो देवो मर्त्यं आततान ॥

ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्ठाः ।
ते विराजम् अभिसंयन्तु सर्वा ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि ।
सप्त ऋत्विजः सप्तधा त्वा यजन्ति सप्त होत्रा ऋतुथा नु विद्वान्त् सप्त योनीर् आपृणस्व घृतेन स्वाहा ॥

ये अग्नयो दिवो ये पृथिव्याः समागछन्तीषम् ऊर्जं वसानाः ।
ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परेत स्वाहा ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥

उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः ।
स्तुता मन्त्राः कविशस्ता अवन्तु न एना राजन् हविषा मादयस्व ॥

प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥

घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योर् अर्को ज्योतिस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योर् वातः प्राणस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योः ॥

अविषं नः पितुं पच ॥

कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥

ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्टाः ।