अविनष्टान् अविह्रुतान् पूषैनान् अभ्यरक्षीद् आस्माकं पुनर् आगमात् ॥ इत्य् अहोरात्रे वै मित्रावरुणौ पशवः पूषाहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् गुप्तान् आत्मन् धत्ते ॥म्स्_१,५।१४॥
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
देवान् जिगाति सुम्नयुः ॥
उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥
उद् अग्ने तव तद् घृताद् अर्ची रोचता आहुतम् ।
निंसानं जुह्वो मुखे ॥
प्रजा अग्ने संवासयेहाशाश् च पशुभिः सह ।
राष्ट्राण्य् अस्मिन् धेहि यान्य् आसन्त् सवितुः सवे ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्न् अग्ना आरोह ततो नो वर्धया रयिम् ॥
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।
पितरं च प्रयन्त् स्वः ॥
त्रिंशद्धामा विराजति वाक् पतङ्गाय हूयते ।
व्यक्शन् महिषो दिवम् ॥
अन्तश् चरत्य् अर्णवे अस्य प्राणाद् अपानतः ।
प्रति वां सूरो अहभिः ॥
इतो जज्ञे प्रथमं स्वाद् योनेर् अधि जातवेदाः ।
स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥
यो नो अग्निः पितरो हृत्स्व् अन्तर् अमर्त्यो मर्त्यं आविवेश ।
तम् आत्मनि परिगृह्णीमसीह नेद् एषो अस्मान् अवहाय परायत् ॥
दोह्या च ते दुग्धभृच् चोर्वरी ते ते भागधेयं प्रयच्छामि ताभ्यां त्वादधे घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यत् ते शुक्र शुक्रं ज्योतिस् तेन रुचा रुचम् अशीथाः ॥
मयि गृह्णाम्य् अहम् अग्रे अग्निं सह प्रजया वर्चसा धनेन ।
मयि क्षत्रं मयि रायो दधामि मदेम शतहिमाः सुवीराः ॥
भूर् भुवो ऽङ्गिरसां त्वा देवानां व्रतेनादधे ऽग्नेष् ट्वा देवस्य व्रतेनादध इन्द्रस्य त्वा मरुत्वतो व्रतेनादधे मनोष् ट्वा ग्रामण्यो व्रतेनादधे ॥
आछदि त्वा छन्दो दधे द्यौर् मह्नासि भूमिर् भूना ।
तस्यास् ते देव्य् अदित उपस्थे ऽन्नादम् अग्निम् अन्नपत्यायादधे ॥