१३

यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥म्स्_१,५।१३॥

पशून् मे शंस्य पाहि तान् मे गोपायास्माकं पुनर् आगमात् ॥

अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय ॥

प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनर् आगमाद् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अन्नं मे बुध्य पाहि तन् मे गोपायास्माकं पुनर् आगमात् ॥

इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।
अविनष्टान् अविह्रुतान् पूषैनान् अभिरक्षत्व् आस्माकं पुनर् आगमात् ॥

पशून् मे शंस्य पाहि तान् मे गोपायास्माकं पुनर् आगमाद् इत्य् आहवनीयम् उपतिष्ठत आहवनीयायैव पशून् परिदाय प्रैत्य् अग्ने सहस्राक्ष शतमूर्धन्न् इति सहस्राक्षो ह्य् एष शतमूर्धा शतं ते प्राणाः सहस्रम् अपाना इति शतं ह्य् एतस्य प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजायेत्य् आशिषम् एवाशास्ते ॥

प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनर् आगमाद् इति गार्हपत्यम् उपतिष्ठते गार्हपत्यायैव प्रजां परिदाय प्रैत्य् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया इत्य् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतो ऽन्नं मे बुध्य पाहि तन् मे गोपायास्माकं पुनर् आगमाद् इति दक्षिणाग्निम् उपतिष्ठते दक्षिणाग्नय एवान्नं परिदाय प्रैति ॥

इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।
अविनष्टान् अविह्रुतान् पूषैनान् अभिरक्षत्व् आस्माकं पुनर् आगमात् ॥ इत्य् अहोरात्रे वै मित्रावरुणौ पशवः पूषाहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् परिदाय प्रति ॥

अग्निं समाधेहि ॥ इत्य् आह भस्म त्वा उपतिष्ठते ॥

पशून् मे शंस्याजुगुपस् तान् मे पुनर् देहि ॥ इत्य् आहवनीयं पुनर् एत्योपतिष्ठत आहवनीयेनैव पशून् गुप्तान् आत्मन् धत्ते ॥

अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय ॥

प्रजां मे नर्याजुगुपस् तां मे पुनर् देहि ॥ इति गार्हपत्यं पुनर् एत्योपतिष्ठते गार्हपत्येनैव प्रजां गुप्ताम् आत्मन् धत्ते ॥

अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अन्नं मे बुध्याजुगुपस् तन् मे पुनर् देहि ॥ इति दक्षिणाग्निं पुनर् एत्योपतिष्ठते दक्षिणाग्निनैवान्नं गुप्तम् आत्मन् धत्ते ॥

इमान् मे मित्रावरुणौ गृहान् जुगुपतं युवम् ।