१२

ददन् मा इति वै दीयते सददि वा एष ददाति यो ऽग्निहोत्रं जुहोति यद्यत् कामयेत तत्तद् अघिहोत्र्य् अग्निं याचेद् उप हैनं तन् नमति तद् आहुर् ऋछति वा एष देवान् य एनान्त् सददि याचतीति तस्मात् तर्हि नोपस्थेयो यमो वा अम्रियत ते देवा यम्या यमम् अपाब्रुवंस् तां यद् अपृछन्त् साब्रवीद् अद्यामृतेति ते ऽब्रुवन् न वा इयम् इमम् इत्थं मृष्यते रात्रीं सृजामहा इत्य् अहर् वाव तर्ह्य् आसीन् न रात्रिस् ते देवा रात्रिम् असृजन्त ततः श्वस्तनम् अभवत् ततः सा तम् अमृष्यत तस्माद् आहुर् अहोरात्राणि वावाघं मर्षयन्तीति सा वै रात्रिः सृष्टा पशून् अभिसममीलत् ते देवाश् छन्दोभिर् एव पशून् अन्वपश्यंश् छन्दोभिर् एनान् पुनर् उपाह्वयन्त यद् उपतिष्ठते छन्दोभिर् वा एतत् पशून् अनुपश्यति छन्दोभिर् एनान् पुनर् उपह्वयते ऽथो आहुर् वरुणो वै स तद् रात्रिर् भूत्वा पशून् अग्रसतेति ते देवाश् छन्दोभिर् एव वरुणात् प्रामुञ्चंश् छन्दोभिर् एनान् पुनर् उपाह्वयन्त यद् उपतिष्ठते छन्दोभिर् वा एतद् वरुणात् पशून् प्रमुञ्चति छन्दोभिर् एनान् पुनर् उपह्वयते यज्ञोयज्ञो वै समृछते ऽथाकस्यविदो मन्यन्ते सोम एव समृछता इत्य् अग्नीषोमीयायाः पुरस्ताद् विहव्यस्य चतस्रा ऋचो वदेद् आग्नेयस्य पुरोडाशस्य द्वे याज्यानुवाक्ये कुर्याद् एतेनैव हवींष्य् आसन्नान्य् अभिमृशेद् वृङ्क्ते ऽन्यस्य यज्ञं नास्यान्यो यज्ञं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतरः ॥म्स्_१,५।१२॥
सृजामहा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अभिसममीलत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रामुञ्चंश् : ⟨ प्रामुञ्चन्

अग्निं वा एते चित्यं चिन्वते य आहिताग्नयो दर्शपूर्णमासिनस् तेषां वा अहोरात्राण्य् एवेष्टका उपधीयन्ते यत्र पञ्च रात्रीः संहिता वसेत् तज् जुहुयात् पञ्च रात्रयः पञ्चाहानि सा दशत् सम्पद्यते तन् नैवं कर्तवय् अयतं तद् दशस्व् एव रात्रिष्व् अन्तमं होतव्यं तथा यतं क्रियते न सर्वेषु युक्तेषु होतव्यं वास्तौ जुहुयान् नायुक्तेष्व् अयतं क्रियते सर्वाण्य् अन्यानि युक्तानि स्युर् अग्निष्ठस्य दक्षिणो युक्तः स्यात् सव्यस्य योक्त्रं परिहृतम् अथ जुहुयान् न वास्तौ जुहोति यतम् उत्क्रियते तन् न सूर्क्ष्यं सर्वेष्व् एव युक्तेषु होतव्यं वास्तोष्पत्यं ह्य् एतन् न हीनम् अन्वाहर्तवै रुद्राय हि तद् धीयते यद् धीनम् अन्वाहरेयू रुद्रं भूतम् अन्वाहरेयुर् यद्य् अनुवाहः स्यात् पूर्वं तं प्रवहेयुर् अप वोद्धरेयुर् यद् धीयेत हीयेतैव तद् अथ जुहुयात् ॥
हीयेतैव : फ़्न् एमेन्देद्। एद्।: हीयेतैव

अमीवहा वास्तोष्पते विश्वा रूपाण्य् आविशन् ।
सखा सुशेव एधि नः ॥

वास्तोष्पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः ।