११

महि त्रीणाम् अवो ऽस्त्व् इति प्राजापत्येन तृचेनोपतिष्ठते प्राजापत्या वा इमाः प्रजास् ता एवावारुद्ध ता आद्या अकृताथो प्रजापतिम् एवोपैति प्रजापता एव देवतासु प्रतितिष्ठति सोमानं स्वरणम् इति ब्राह्मणस्पत्ययोपतिष्ठते ब्रह्मणि प्रतितिष्ठत्य् अथो ब्रह्मवर्चसम् एवावरुन्द्धे यो वै ब्रह्मणि प्रतिष्ठितेन स्पर्धते पूर्वो ऽस्मात् पद्यत उभयीर् वा अग्निहोत्रिणि देवता आशंसन्ते याभ्यश् च जुहोति याभ्यश् च न मित्रस्य चर्षणीधृता इति मैत्र्योपतिष्ठत उभयत एवैतया मित्रम् अकृतेतश् चामुतश् च कदा चन स्तरीर् असीत्य् ऐन्द्रीभ्यां बृहतीभ्याम् उपतिष्ठत ऐन्द्रा वै पशवस् तान् एवावारुद्ध तान् आद्यान् अकृत परि ते दूडभो रथा इत्य् असौ वा आदित्यो दूडभो रथ एष वा इमा उभौ लोकौ समीयते सर्वम् एवैतया परिगृह्णाति निम्रदो ऽसि न्य् अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति पार्ष्ण्यावगृह्णीयाद् यदि पापीयसा स्पर्धेताभिभूर् अस्य् अभ्य् अहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदो ऽवगृह्णीयाद् यदि सदृशेन स्पर्धेत प्रभूर् असि प्राहं तम् अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति प्रपदेनावगृह्णीयाद् यदि श्रेयसा स्पर्धेत सर्वान् एवैनान् अभिभवति सर्वान् अतिभवति सर्वान् अतिक्रामति पूषा मा पथिपाः पात्व् इतीयम् एव पूषा मा पशुपाः पात्व् इत्य् अन्तरिक्षम् एव पूषा माधिपाः पात्व् इत्य् असा एवेमान् एव लोकान् उपासरद् एभ्यो लोकेभ्य आत्मानं परिधत्ते ऽहिंसायै प्राची दिग् अग्निर् देवतेति तनूपानाम् एव दिक्षु निधत्ते ऽथ येन स्पर्धते येन वा व्यभिचरते स एता एव देवता ऋत्वा पूर्वः पराभवति सप्त वै पुरुषे महिमानस् ते वा एनेनेड्यास् ते वै ते सप्तऋषय एव प्राणा वै सप्तऋषयः प्राणान् वा एतद् ईट्ट ईट्टे ह वै स्वान् प्राणान् वृङ्क्ते भ्रातृव्यस्य प्राणान् नैनम् अभिदासन्त् स्तृणुते य एवं वेद धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्व् आयुश् च प्रायुश् च चक्षश् च विचक्षश् च प्राङ् चापाङ् चोरुक इत्य् अयं वा उरुक एष विभजति तद् यद् एष भजति तद् एतस्मिन्न् एव पुनर् आभजत्य् अग्ने गृहपते ऽग्निं समिन्धे यजमान एतद् वै यजमानस्य स्वं यद् अग्निर् एतद् अग्नेर् यद् यजमान आयतनम् इव वा एतत् क्रियते ज्योतिषे तन्तवे त्वेत्य् अन्तराग्नी उपविश्य वदेद् याम् एव पुर आशिषम् आशास्ते यां पश्चात् ताम् आत्मन् धत्ते ॥म्स्_१,५।११॥
एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
भ्रातृव्यस्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।