आयुर्धा अग्ने ऽस्य् आयुर् मे धेहीत्य् आयुर् एवास्मिन् दधाति वर्चोधा अग्ने ऽसि वर्चो मे धेहीति वर्च एवास्मिन् दधाति चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीति चक्षुर् एवास्य पाति श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहीति श्रोत्रम् एवास्य पाति तनूपा अग्ने ऽसि तन्वं मे पाहीति तन्वम् एवास्य पाति यन् मे अग्न ऊनं तन्वस् तन् मा आपृणेति यद् एवास्यात्मन ऊनं यत् प्रजाया यत् पशूनां तद् एवैतेनापूरयति तद् आप्याययत्य् अग्ने यत् ते तपा इत्य् एता वा अग्नेस् तन्वो ज्योतिष्मतीर् एतद् ध स्म वा आहारुण औपवेशिर् यान् वसीयसः श्रेयस आत्मनो भ्रातृव्यान् अभिप्राजानीम् आभिष् टान् अग्नेस् तनूभिर् ज्योतिष्मतीभिः पराभावयामेति परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् अग्निम् उपतिष्ठते ऽग्ने रुचां पते नमस् ते रुचे मयि रुचं धा इति शान्तम् एव रुचम् आत्मन् धत्ते तेजस्वी ब्रह्मवर्चसी भवति चित्रावसो स्वस्ति ते पारम् अशीयेति रात्रिर् वै चित्रावसुर् अहर् अर्वाग्वसुर् अग्निर् वै रात्रिर् असा आदित्यो ऽहर् एते वै भङ्गे ते ईट्टे त्रिर् आह त्रिषत्या हि देवा रोचते ह वा अस्य यज्ञो वा ब्रह्म वा य एवं वेदाम्भः स्थाभो वो भक्षीयेत्य् अम्भो ह्य् एता महः स्थ महो वो भक्षीयेति महो ह्य् एता ऊर्जः स्थोर्जं वो भक्षीयेत्य् ऊर्जो ह्य् एता रायस्पोषः स्थ रायस्पोषं वो भक्षीयेति रायस्पोषो ह्य् एता रेवती रमध्वम् अस्मिन् योना अस्मिन् गोष्ठ इति स्व एवैना योनौ स्वे गोष्ठे संवेशयत्य् अयं वो बन्धुर् इतो मापगात बह्वीर् भवत मा मा हासिष्टेत्य् आशिषम् आशास्ते वत्सम् आलभते वत्सनिकान्ता हि पशव एष वै सहस्रपोषस्येशे पुष्यति सहस्रं न सहस्राद् अवपद्यते य एवं वेद संहितासि विश्वरूपेति रूपेणरूपेण ह्य् एषा संहिता रूपैर् एवैनां समर्धयति नामासाम् अग्रहीन् मित्रम् आभिर् अकृतोत हि यदा मित्रस्य नाम गृह्णाति मित्रम् एवैनेन कुरुते ॥म्स्_१,५।९॥
सप्त वै बन्धुमतीर् इष्टका अग्नौ चित्या उपधीयन्ते ता वै ता अमुष्मा एव लोकाय सप्त ग्राम्या इष्टकास् ता अत्रोपधेया गौश् चाश्वश् चाश्वतरश् च गर्दभो ऽजा चाविश् च पुरुषो यद् गाम् आलभते गवैव चिता भवन्त्य् अथो आलब्ध एवोपधीयन्ते पराङ् वा एष छन्दोभिः स्वर्गं लोकम् एत्य् अन्यदन्यच् छन्दः समारोहम् उप त्वाग्ने दिवेदिवा इति यद् एतेन गायत्रेण तृचेनोपतिष्ठत इयं वै गायत्र्य् अस्याम् एव प्रतितिष्ठत्य् अग्ने त्वं नो अन्तमा इत्य् एषा वा अग्नेर् अस्तर्या प्रिया तनूर् वरूथ्या ताम् एव प्रैति नैनम् अभिदासन्त् स्तृणुते चतसृभिर् द्विपदाभिर् उपतिष्ठते चतुष्पादो वै पशवो द्विपाद् यजमानो गृहा गार्हपत्यो गृहेषु चैव पशुषु च प्रतितिष्ठत्य् ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यतेत्य् ऊर्जैनाः पश्यत्य् ऊर्जैनं पश्यन्ति रय्या वः पश्यामि रय्या मा पश्यतेति रय्यैनाः पश्यति रय्यैनं पश्यन्ति ॥
सम्पश्यामि प्रजा अहम् इडप्रजसो मानवीः ।