०८

सम् अहम् आयुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीयेत्य् आशिषम् एवाशास्त इन्धानास् त्वा शतं हिमा इति पृतनाजिद् ध्य् आहूतिस् तया राजन्या उपतिष्ठेत यदा हि राजन्यः पृतना जयत्य् अथो भवत्य् उताराजन्या उपतिष्ठेत सर्वो हि पृतना जिगीषति सर्वो बुभूषति मनोर् वै दश जाया आसन् दशपुत्रा नवपुत्राष्टपुत्रा सप्तपुत्रा षट्पुत्रा पञ्चपुत्रा चतुष्पुत्रा त्रिपुत्रा द्विपुत्रैकपुत्रा ये नवासंस् तान् एक उपसमक्रामद् ये ऽष्टौ तान् द्वौ ये सप्त तांस् त्रयो ये षट् तांश् चत्वारो ऽथ वै पञ्चैव पञ्चासंस् ता इमाः पञ्च दशत इमान् पञ्च निरभजन् यद् एव किञ्च मनोः स्वम् आसीत् तस्मात् ते वै मनुम् एवोपाधावन् मना अनाथन्त तेभ्य एताः समिधः प्रायछत् ताभिर् वै ते तान् निरदहंस् ताभिर् एनान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् एताः समिध आदधात्य् अग्नेः समिद् अस्य् अभिशस्त्या मा पाहीत्य् अभिशस्त्या एनं पाति सोमस्य समिद् असि परस्पा म एधीति परस्पा अस्य भवति यमस्य समिद् असि मृत्योर् मा पाहीति मृत्योर् एनं पात्य् एतद् ध स्म वा आह नारद इदं वावाग्न्युपस्थानम् आसेत्य् अभिशस्त्या एनं पाति परस्पा अस्य भवति मृत्योर् एनं पाति ॥म्स्_१,५।८॥