ब्रह्मवादिनो वदन्ति कस्मात् सायम् अग्निम् उपतिष्ठन्ते कस्मात् प्रातर् नेत्य् असौ वा आदित्यः सायम् आसुवति तस्मात् सायम् उपतिष्ठन्त एष प्रातः प्रसुवति तस्मात् प्रातर् नोपतिष्ठन्ते तस्मात् सायम् अहुते ऽग्निहोत्रे ऽग्निहोत्रिणा नाशितव्यं तस्माद् उ प्रातर् अहुते नाशितव्यं तस्मात् सायम् अतिथये प्रत्येनसः पुण्यत्वात् तु प्रातर् ददति प्रातरवनेगेन प्रातर् उपस्थेयो ऽधिश्रित उन्नीयमाने वा हस्ता अवनेनिजीत तत्र विहव्यस्य चतस्रा ऋचो वदेत् प्रातरवनेगे चतस्रः प्रातरवनेगेन वा अनाप्तम् आप्नोत्य् अनवरुद्धम् अवरुन्द्धे तद् अनाप्तम् एवैतेनाप्नोत्य् अनवरुद्धम् अवरुन्द्धे ऽबिभेद् वा एष उद्धृतस् तं देवाश् छन्दोभिः पर्यस्तृणन् यद् उपतिष्ठते छन्दोभिर् एवैनं परिस्तृणात्य् उभयम् अस्मा अकर् अग्नीषोमीयया पूर्वपक्ष उपस्थेयो ऽग्नीषोमीयो वै पूर्वपक्षो ऽपरपक्षायैवैनं परिददात्य् ऐन्द्राग्न्यापरपक्ष उपस्थेय ऐन्द्राग्नो वा अपरपक्षः पूर्वपक्षायैवैनं परिददाति सर्वा ह वा एनं देवताः सम्प्रदायम् अनपेक्षं गोपायन्ति य एवं विद्वान् अग्निम् उपतिष्ठते ॥म्स्_१,५।७॥
त्वम् अग्ने सूर्यवर्चा असीति वसीयसे श्रेयस आशिषम् आशास्ते सं माम् आयुषा वर्चसा सृजेत्य् आत्मना आशास्ते सं त्वम् अग्ने सूर्यस्य ज्योतिषागथा इति सह ह्य् एते तर्हि ज्योतिषी भवतः सम् ऋषीणां स्तुतेनेति छन्दांसि वा ऋषीणां स्तुतं छन्दोभिर् एवैनं समर्धयति सं प्रियेण धाम्नेत्य् आहुतयो वा अग्नेः प्रियं धामाहुतिभिर् एवैनं समर्धयति ॥