०६

अयम् इह प्रथमो धायि धातृभिर् इति गर्भम् एवाधाद् अस्य प्रत्नाम् अनु द्युतम् इत्य् उधर् एवाकर् अयं ते योनिर् ऋत्विया इत्य् अजीजनच् चैवावीवृधच् च षड्भिर् उपतिष्ठते षड् वै पृष्ठानि पृष्ठान्य् एवाचीकॢपद् दधिक्राव्णो अकारिषम् इति दधिक्रावत्योपतिष्ठत एषा वा अग्नेर् दधिक्रावती प्रिया तनूः पशव्या सर्वसमृद्धाग्नेर् एवैतया प्रियं धामोपैत्य् अथो पशुमान् भवत्य् अथो आत्मानम् एवैतया यजमानः पुनीते सप्तभिर् उपतिष्ठते सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे जीर्यति वा एष आहितः पशुर् ह्य् अग्निस् तद् एतान्य् एवाग्न्याधेयस्य हवींषि संवत्सरेसंवत्सरे निर्वपेत् तेन वा एष न जीर्यति तेनैनं पुनर्णवं करोति तन् न सूर्क्ष्यम् एताभिर् एवाग्नेयपावमानीभिर् अग्न्याधेयस्य याज्यानुवाक्याभिर् उपस्थेयस् तेन वा एष न जीर्यति तेनैनं पुनर्णवं करोति द्वादशभिर् उपतिष्ठते द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे ऽग्नीषोमीयया त्रयोदश्योपस्थेयो ऽस्ति मासस् त्रयोदशस् तम् एवैतयाप्त्वावरुन्द्धे ॥म्स्_१,५।६॥