०४

पूषा मा पथिपाः पातु पूषा मा पशुपाः पातु पूषा माधिपाः पातु प्राची दिग् अग्निर् देवता यो मैतस्या दिशो अभिदासाद् अग्निं सा ऋछतु दक्सिणा दिग् इन्द्रो देवता यो मैतस्या दिशो अभिदासाद् इन्द्रं सा ऋछतु प्रतीची दिङ् मरुतो देवता यो मैतस्या दिशो अभिदासान् मरुतः सा ऋछतूदीची दिङ् मित्रावरुणौ देवता यो मैतस्या दिशो अभिदासान् मित्रावरुणौ सा ऋछतूर्ध्वा दिक् सोमो देवता यो मैतस्या दिशो अभिदासात् सोमं सा ऋछतु धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्व् आयुश् च प्रायुश् च चक्षश् च विचक्षश् च प्राङ् चापाङ् चोरुक उरुकस्य ते वाचा वयं सं भक्तेन गमेमह्य् अग्ने गृहपते ॥म्स्_१,५।४॥