०३

भुवनम् असि सहस्रपोषपुषि तस्य नो रास्व तस्य ते भक्तिवानो भूयास्मेडासि व्रतभृत् त्वयि व्रतं व्रतभृद् असि ॥म्स्_१,५।३॥

महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥

नहि तेषाम् अमा सतां नाध्वसु वारणेषु च ।
ईशे रिपुर् अघशंसः ॥

ते हि पुत्रासो अदितेश् छर्दिर् यछन्त्य् अजस्रम् ।
प्र दाशुषे वार्याणि ॥

सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य औशिजः ॥

यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः ।
स नः सिषक्तु यः शिवः ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥

कदा चन स्तरीर् असि कदा चन प्रयुछसि ॥

परि ते दूडभो रथो ऽस्मं अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥

निम्रदो ऽसि न्य् अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽभिभूर् अस्य् अभ्य् अहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः प्रभूर् असि प्राहं तम् अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥