०२

मयि वो रायः श्रयन्तां सहस्रपोषं वो ऽशीय ॥म्स्_१,५।२॥

उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् ।
नमो भरन्त एमसि ॥

राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥

स नः पितेव सूनवे ऽग्ने सूपायनो भव ।
सचस्वा नः स्वतये ॥

अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥

वसुर् अग्निर् वसुश्रवा अछा नक्षि द्युतत्तमं रयिं दाः ।
स नो बोधि श्रुधी हवम् उरुष्या नो अघायतः समस्मात् ॥

अभ्यस्थां विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह ।
बृहस्पतिः सवितेन्द्रस् तद् आह पूषा ना आधात् सुकृतस्य लोके ॥

ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत ।
रय्या वः पश्यामि रय्या मा पश्यत ॥

सम्पश्यामि प्रजा अहम् इडप्रजसो मानवीः ।
सर्वा भवन्तु नो गृहे ॥

इडाः स्थ मधुकृतः स्योना माविशतेरम्मदः ।
सहस्रपोषं वो ऽशीय ॥