मा मा तितीर्षन् तारीत् ॥म्स्_१,५।१॥
त्वम् अग्ने सूर्यवर्चा असि सं माम् आयुषा वर्चसा सृज सं त्वम् अग्ने सूर्यस्य ज्योतिषागथाः ॥
सम् ऋषीणां स्तुतेन सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीय ॥
इन्धानास् त्वा शतं हिमा द्युमन्तः समिधीमहि ।
वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।
अग्ने सपत्नदम्भनं सुवीरासो अदाभ्यम् ॥
अग्नेः समिद् अस्य् अभिशस्त्या मा पाहि सोमस्य समिद् असि परस्पा म एधि यमस्य समिद् असि मृत्योर् मा पाह्य् आयुर्धा अग्ने ऽस्य् आयुर् मे धेहि वर्चोधा अग्ने ऽसि वर्चो मे धेहि चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहि तनूपा अग्ने ऽसि तन्वं मे पाहि यन् मे अग्न ऊनं तन्वस् तन् मा आपृणाग्ने यत् ते तपस् तेन तं प्रतितप यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते शोचिस् तेन तं प्रतिशोच यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते अर्चिस् तेन तं प्रत्यर्च यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते हरस् तेन तं प्रतिहर यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते तेजस् तेन तं प्रतितितिग्धि यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने रुचां पते नमस् ते रुचे मयि रुचं धाश् चित्रावसो स्वस्ति ते पारम् अशीयार्वाग्वसो स्वस्ति ते पारम् अशीयाम्भः स्थाम्भो वो भक्षीय महः स्थ महो वो भक्षीयोर्जः स्थोर्जं वो भक्षीय रायस्पोषः स्थ रायस्पोषं वो भक्षीय ॥
रेवती रमध्वम् अस्मिन् योना अस्मिन् गोष्ठे ऽयं वो बन्धुर् इतो मापगात बह्वीर् भवत मा मा हासिष्ट ॥
संहितासि विश्वरूपा मोर्जा विशा गौपत्येना प्रजया रायस्पोषेण ॥