अग्नये भगिने ऽष्टाकपालं निर्वपेद् यः कामयेत भग्य् अन्नादः स्याम् इति प्रजापतिर् वै भगो यज्ञः क्रतुः तस्मात् सर्वो मन्यते मां भगो ऽरिष्यति मां भगो ऽरिष्यतीति यद् अग्नये भगिने भगम् एव साक्षाद् आप्त्वावरुन्द्धे भग्य् अन्नादो भवत्य् उभौ सह दर्शपूर्णमासा आलभ्यऊद् वा अन्यशृङ्गे सितो मुच्यते दर्शो वा एतयोः पूर्वः पूर्णमासा उत्तरो ऽथ पूर्णमासं पूर्वम् आलभन्ते तद् अयथापूर्वं क्रियते तत् पूर्णमासम् आलभमानः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पूर्णमासः सरस्वान् उभा एवैनौ यथापूर्वं कल्पयित्वालभत ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय ॥म्स्_१,४।१५॥
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
आरे अस्मे च शृण्वते ॥
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् ॥
अपां रेतांसि जिन्वति ॥
उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ॥
उभा दातारा इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशेविशे ॥
अस्य प्रत्नाम् अनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसाम् ऋषिम् ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्न् अग्ना आरोह ततो नो वर्धया रयिम् ॥
दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
सुरभि नो मुखा करत् प्र ना आयूंषि तारिषत् ॥
अग्ना आयूंषि पवसा आसुवोर्जम् इषं च नः ।
आरे बाधस्व दुछुनाम् ॥
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तम् ईमहे महागयम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
दधत् पोषं रयिं मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवं इहावह ।
उप यज्ञं हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः ।
शुची रोचता आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्य् अर्चयः ॥
अग्नीषोमा इमं सु मे शृणुतं वृषणा हवम् ।
प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
अग्निस् तिग्मस् तिग्मतेजाः प्रति रक्षो दहतु सहताम् अरातिम् ।
अपाघशंसं नुदताम् ॥
अग्ने सपत्नसाह सपत्नान् मे सहस्व ।