एतां सङ्कष्य जुहुधि ॥ इत्य् अग्निर् वै सर्वा देवताः सर्वाभिर् एवास्य देवताभिर् हुतं भवति पूर्णपात्रम् अग्नीधे देयं सैव तस्य प्रायश्चित्तिर् यजमानो वै जुहूर् भ्रातृव्य उपभृन् न प्रक्षिणतेव होतव्यं यत् प्रक्षिणीयाद् यजमानं प्रक्षिणीयाद् व्यृषतेव होतव्यं देवेषवो वा एता यद् आहुतयो यं द्विष्यात् तं तर्हि मनसा ध्यायेद् देवेषुभिर् एवैनं व्यृषति स्तृणुत एव पशवो वा आहुतयो रुद्रो ऽग्निः स्विष्टकृन् न सह होतव्यं यत् सह जुहुयाद् रुद्रायास्य पशून् अपिदध्याद् उत्तरार्धपूर्वार्धे होतव्यम् आहुतीनाम् असंसृष्ट्यय् अथो एवम् अस्य रुद्रः पशून् अनभिमानुको भवति ॥म्स्_१,४।१३॥
आग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासा आलप्स्यमानो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालभ्य दर्शपूर्णमासा आलभते जयान् उ त्वो जुह्वति देवाश् च वा असुराश् चास्पर्धन्त स प्रजापतिर् एतान् जयान् अपश्यत् तान् इन्द्राय प्रायछत् तैः संस्तम्भंसंस्तम्भम् असुरान् अजयत् संस्तम्भंसंस्तम्भं भ्रातृव्यं जयति यस्यैते हूयन्ते ॥
आकूतं चाकूतिश् च ॥ इति यज्ञो वा आकूतं दक्षिणाकूतिः ॥
चित्तं च चित्तिश् च ॥ इति मनो वै चित्तं वाक् चित्तिः ॥
आधीतं चाधीतिश् च ॥ इति प्रजा वा आधीतं पशवा आधीतिः ॥
विज्ञातं च विज्ञातिश् च ॥ इत्य् ऋग् वै विज्ञातं साम विज्ञातिः ॥
भगश् च क्रतुश् च ॥ इति प्रजापतिर् वै भगो यज्ञः क्रतुः ॥
दर्शश् च पूर्णमासश् च ॥ इति दर्शपूर्णमासा एव तद् द्वादश द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे प्रजापतिः प्रायच्छज् जयान् इन्द्राय वृष्ण उग्रः पृतनासु जिष्णुः ॥
द्वादश : फ़्न् च्फ़्। ४।५।७:७४।८
तेभिर् वाजं वाजयन्तो जयेम तेभिर् विश्वाः पृतना अभिष्याम ॥ इति त्रयोदशीम् आहुतिं जुहुयाद् अस्ति मासस् त्रयोदशस् तम् एवैतयाप्त्वावरुन्द्धे ॥
अग्ने बलद सहा ओजः क्रममाणाय मे दा अभिशस्तिकृते ऽनभिशस्तेन्याय ॥