ब्रध्न पाहि ॥ इति पुरोडाशम् अभिमृशेद् भजतां भागी माभागो भक्त ब्राह्मणानाम् इदं हविः सोम्यानां सोमपानां नेहाब्राह्मणस्याप्य् अस्ति कुर्वतो मे मा क्षेष्ट ददतो मे मोपदसत् ॥ इति दक्षिणीयेष्व् एव यज्ञं प्रतिष्ठापयत्य् अस्कन्नम् अविक्षुब्धम् उत याम् अब्राह्मणः प्राश्नाति सास्य हुतैव भवति ॥म्स्_१,४।१२॥
यस्याज्यम् अनुत्पूतं स्कन्दति सा वै चित्रा नामाहुतिस् ततो यजमानस्य चित्रं प्रमायुकं भवति चित्रं देयं सैव तस्य प्रायश्चित्तिर् अथ यस्योत्पूतं स्कन्दति सा वै स्कन्ना नामाहुतिस् ततो यजमानः प्रमायुको भवति वरो देयः सैव तस्य प्रायश्चित्तिर् अथ यस्य पुरोडाशौ दुःशृतौ भवतस् तद् धविर् यमदेवत्यं यदा तद् धविः सन्तिष्ठेताथ चतुःशरावम् ओदनं पक्त्वा ब्राहमणेभ्यो जीवतण्डुलम् इवोपहरेत् सैव तस्य प्रायश्चित्तिर् अथ यस्य पुरोडाशौ क्षायतस् तं यज्ञं वरुणो गृह्णाति यदा तद् धविः सन्तिष्ठेताथ तद् एव हविर् निर्वपेद् यज्ञो हि यज्ञस्य प्रायश्चित्तिर् अथ यो ऽदक्षिणेन यज्ञेन यजते तं यजमानं विद्याद् अदक्षिणेन हि वा अयं यज्ञेन यजते ऽथ न वसीयान् भवतीत्य् उर्वरा समृद्धा देया सैव तस्य प्रायश्चित्तिर् अथ यस्य कपालं भिद्येत तत् सन्दध्याद् गायत्र्या त्वा शताक्षरया सन्दधामि ॥ इति वाग् वै गायत्री शताक्षरा वाचैवैनत् सन्दधात्य् अथ यस्य कपालं नश्यति तं वा इयं स्वर्गाल् लोकाद् अन्तर्दधाति यदा तद् धविः सन्तिष्ठेताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेद् अयं वा अग्निर् वैश्वानर इमाम् एव भागधेयेनोपासरत् स्वर्गस्य लोकस्यानन्तर्हित्यय् अथ यस्याहुतिर् बहिष्परिधि स्कन्दति सा वै जीवनड् आहुतिर् अग्नीधं ब्रूयात् ॥
यज्ञेन : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।