११

यज्ञस्य त्वा प्रमयाभिमया परिमयोन्मया परिगृह्णामि ॥ इति गायत्री वै यज्ञस्य प्रमा त्रिष्टुब् अभिमा जगती परिमानुष्टुब् उन्मैतानि वै छन्दांसि यज्ञं वहन्ति तैर् एवैनं परिगृह्णाति ॥म्स्_१,४।११॥

केशिनं वै दार्भ्यं गन्धर्वाप्सरसो ऽपृछन् कथा यजमानो यजमानेन भ्रातृव्येण सदृङ्ङ् असीत्य् अहं वेदा इत्य् अब्रवीत् ते ऽब्रुवन्न् अङ्ग नो यज्ञं व्याचक्ष्वा इति तेभ्यो यज्ञं व्याचष्ट ते ऽब्रुवन्न् उतैतेन यजमानो यजमानाद् भ्रातृव्यात् पापीयान्त् स्याद् इति ते ऽब्रुवंस् तथा वै ते यज्ञं विधास्यामो यथा यजमानो यजमानं भ्रातृव्यम् अभिभविष्यसीति तस्मा आहुतीर् यज्ञं व्यदधुस् ततः केशी षण्डिकम् औद्भारिम् अभ्यभवद् अभि भ्रातृव्यं यज्ञेन भवति य एवं वेद प्राणो वा आघारः पूर्वार्धे होतव्यो मुखत एवास्य प्राणं दधाति प्राणो वा आघारो मध्यतो होतव्यो मध्यत एवास्य प्राणं दधात्य् आघारं भूयिष्ठम् आहुतीनां जुहुयात् प्राणो वा आघारः प्राणम् एवास्य भूयिष्ठं करोति सन्ततम् आघारम् आघारयेत् प्राणो वा आघारः प्राणस्य सन्तत्यय् ऊर्ध्वम् आघारम् आघारयेत् स्वर्गकामस्य यजमानो वा आघारो यजमानम् एव स्वर्गं लोकं गमयति यं द्विष्यात् तस्य न्यञ्चम् आघारयेत् पापीयान् भवत्य् अभिक्रामन्ती वा एकाहुतिर् अपक्रामन्त्य् एका प्रतिष्ठितैका याम् अभिक्रामं जुहोति साभिक्रामन्ती याम् अपक्रामं जुहोति सापक्रामन्ती यां समानत्र तिष्ठन् जुहोति सा प्रतिष्ठिता यं कामयेताभितरं वसीयाञ् श्रेयान्त् स्याद् इति तस्याभिक्रामं जुहुयात् तेन सो ऽभितरं वसीयाञ् श्रेयान् भवत्य् अथ यं कामयेतापतरं पापीयान्त् स्याद् इति तस्यापक्रामं जुहुयात् तेन सो ऽपतरं पापीयान् भवत्य् अथ यं कामयेत न वसीयान्त् स्यान् न पापीयान् इति तस्य समानत्र तिष्ठन् जुहुयात् तेन स न वसीयान् न पापीयान् भवत्य् ऋतवो वै प्रयाजाः समानत्र होतव्या ऋतूनां प्रतिष्ठित्यै याग्नेर् आज्यभागस्य सोत्तरार्धे होतव्या ततो योत्तरा सा रक्षोदेवत्या या सोमस्याज्यभागस्य सा दक्षिणार्धे होतव्या ततो या दक्षिणा सा पितृदेवत्यैतद् वा अन्तराहुतीनां लोकः कॢप्ता अस्याहुतयो यथापूर्वं हूयन्ते य एवं वेद धूमे जुहोति तां तमसि जुहोति ततो यजमानो ऽरोचुको भवति याम् अङ्गारेषु जुहोति सान्धाहुतिस् ततो यजमानस्य चक्षुः प्रमायुकं भवत्य् उभे ज्योतिष्मति होतव्ये रोचुको यजमानो भवति नास्य चक्षुः प्रमीयते याम् अब्राह्मणः प्राश्नाति सा स्कन्नाहुतिस् तस्या वसिष्ठ एव प्रायश्चित्तिं विदाञ्चकार ॥