देवतानां वा एतद् आयतनं यद् आहवनीयो यद् अन्तराग्नी तत् पशूनां मनुष्याणां गार्हपत्यः पित्πणाम् ओदनपचनः सर्वा ह वा अस्य यक्ष्यमाणस्य देवता यज्ञम् आगछन्ति य एवं वेद पूर्वं चाग्निम् अपरं च परिस्तरीतवा आह मनुष्याणां वै नवावसानं प्रियं नवावसानम् एवाकर् मेध्यत्वायाग्नेर् जिह्वासि वाचो विसर्जनम् इति पुरोडाश्यान् आवपति देवतानां वा एष ग्रहो देवता वा एतद् अग्रहीद् एतद् ध स्म वा आहारुण औपवेशिर् अहुतासु वा अहम् आहुतिषु देवता हव्यं गमयामि संस्थितेन यज्ञेन संस्थां गछानीति तद् य एवं वेदाहुतास्व् एवास्याहुतिषु देवता हव्यं गछति संस्थितेन यज्ञेन संस्थां गछत्य् औलूखलाभ्यां वै दृषदा हविष्कृद् एहि ॥ इति देवा यज्ञाद् रक्षांस्य् अपाघ्नत यद् औलूखला उद्वादयन्ति दृषदौ समाघ्नन्ति ॥ हविष्कृद् एहि ॥ इत्य् आह रक्षसाम् अपहत्यय् अपः प्रणीय वाचं यछति मनसा वै प्रजापतिर् यज्ञम् अतनुतौलूखलयोर् उद्वदितोर् अध्वर्युश् च यजमानश् च वाचं यछेतां प्रजापतिर् एव भूत्वा मनसा यज्ञं तन्वाते न सर्वाणि सह यज्ञायुधानि प्रहृत्यानि मानुषं तत् क्रियते नैकमेकं पितृदेवत्यं तद् द्वेद्वे सह प्रहृत्ये याज्यानुवाक्ययो रूपम् उपवसत्य् उभयांस् तेन पशून् अवरुन्द्धे ग्राम्यांस् चारण्यांश् च यद् ग्राम्यस्य नाश्नाति तेन ग्राम्यान् अवरुन्द्धे ऽथ यद् आरण्यस्याश्नाति तेनारण्यान् अथो इन्द्रियं वा आरण्यम् इन्द्रियम् एवात्मन् धत्ते न माषाणाम् अश्नीयाद् अयज्ञिया वै माषा न तस्य सायम् अश्नीयाद् यस्य प्रातर् यक्ष्यमाणः स्याद् अप्रतिजग्धेन वै देवा हव्येन वसीयोभूयम् अगछन् प्रतिजग्धेनासुराः पराभवंस् तद् अप्रतिजग्धेन वा एतद् धव्येन यजमानो वसीयोभूयं गछति परास्य भ्रातृव्यो भवति यो वै श्रद्धाम् अनालभ्य यजते पापीयान् भवत्य् आपो वै श्रद्धा न वाचा गृह्यन्ते न यजुषाति वा एता वाचं नेदन्त्य् अति वर्त्रं मनस् तु नातिनेदन्ति यर्ह्य् अपो गृह्णीयाद् इमां तर्हि मनसा ध्यायेद् इयं वा एतासां पात्रम् अनयैवैना अग्रहीच् छ्रद्धाम् आलभ्य यजते न पापीयान् भवति ॥म्स्_१,४।१०॥
ब्रह्मवादिनो वदन्ति प्रेध्मम् उक्षन्ति प्र हविर् इध्मः प्रथम आहुतीनां कस्माद् अन्येषां हविषां याज्यानुवाक्याः सन्ति कस्माद् इध्मस्य नेति ॥
अग्नये समिध्यमानायानुब्रूहि ॥ इति पुरोनुवाक्या सामिधेनीर् याज्योपवाको वषट्कारो यत्र वै यज्ञस्यातिरिक्तं क्रियते तद् यजमानस्यातिरिक्तम् आत्मन् जायते यद् अनाप्तं वि यज्ञश् छिद्यते क्षोधुको यजमानो भवति परिधानीयया सामिधेनीनाम् उत्तमम् इध्मस्य समर्धयत्य् अक्षोधुको यजमानो भवति नास्यातिरिक्तम् आत्मन् जायते यो वै प्रजापतिं सप्तदशं यज्ञे ऽन्वायत्तं वेद नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति ॥
ओ श्रावय ॥ इति चतुरक्षरम् ॥
अस्तु श्रौषट् ॥ इति चतुरक्षरम् ॥
ये यजामहे ॥ इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै प्रजापतिः सप्तदशो यज्ञे ऽन्वायत्तो यद्य् अनुवाक्याया एति यदि याज्याया अतश् चेद् एव नैति नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति न वै तद् विद्म यदि ब्राह्मणा वा स्मो ऽब्राह्मणा वा यदि तस्य वा ऋषेः स्मो ऽन्यस्य वा यस्य ब्रूमहे यस्य ह त्व् एव ब्रुवाणो यजते तं तद् इष्टम् आगछति नेतरम् उपनमति तत् प्रवरे प्रवर्यमाणे ब्रूयात् ॥
देवाः पितरः पितरो देवा यो ऽस्मि स सन् यजे यो ऽस्मि स सन् करोमि शुनं म इष्टं शुनं शान्तं शुनं कृतं भूयात् ॥ इति तद् य एव कश् च स सन् यजते तं तद् इष्टम् आगछति नेतरम् उपनमति ॥