इति य एव देवा यज्ञहनश् च यज्ञमुषश् च पृथिव्यां तांस् तीर्त्वान्तरिक्षम् आरुहद् य एव देवा यज्ञहनश् च यज्ञमुषश् चान्तरिक्षे तांस् तीर्त्वा दिवम् अगन् य एव देवा यज्ञहनश् च यज्ञमुषश् च दिवि तांस् तीर्त्वा सजातानां मध्ये श्रैष्ठ्या आधाद् एनं शिरो वा एतद् यज्ञस्य यत् पुरोडाशः केशा वेदो यद् वेदेन पुरोडाशं सम्मार्ष्टि यज्ञस्य सर्वत्वायाथो मेध्यत्वाय यज्ञो वै देवेभ्यस् तिरो ऽभवत् तं देवा वेदेनाविन्दंस् तद् वेदस्य वेदत्वं यद् वेदेन वेद्याम् आस्ते यज्ञम् एवास्मै विन्दति पत्न्यै वेदं प्रयछति दुरनुवेदो वा अमुत्र यज्ञो यज्ञम् एवास्मै विन्दति त्रिः प्रयछति त्रिषत्या हि देवा उपस्था आस्यते पुमांसं जानुका भवति पशवो वै वेद ओषधयो ह्य् एष एष खलु वै पशूनां लोको यद् अन्तराग्नी स्वे वा एतल् लोके यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते ऽर्धमासेऽर्धमासे वै यज्ञो विछिद्यते सन्ततम् आहवनीयात् स्तृणन्न् एति यज्ञस्य सन्तत्यै तं सन्ततम् उत्तरे ऽर्धमासे ऽभियजते गोमं अग्ने ऽविमं अश्वी यज्ञ इति गोमन्तम् एवाविमन्तम् अश्विनं यज्ञम् अकर् इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् इत्य् आशिषम् एवाशास्ते सं पत्नी पत्या सुकृतेषु गछताम् इत्य् एष वै पत्न्या यज्ञस्यान्वारम्भः सह स्वर्गे लोके भवतो या वा एतस्य पत्नी सैतं सम्प्रति पश्चाद् अन्वास्ते यत् सम्प्रति पश्चाद् अन्वासीत प्रजाम् अस्या निर्दहेद् यद् आह पत्नि पत्न्य् एष ते लोक इति लोकम् एवास्या अकर् अनिर्दाहुको ऽस्याः प्रजां भवति या सरस्वती वेशयमनीति वेशयमनं वेशान् एवास्मै तेन यछत्य् उतास्याजीवन्तः सजाता उपासते वाचम् इन् न्व् अस्य ब्राह्मणस्य वा राजन्यस्य वोपास्मह इति मांसं तु न पचेयुस् तस्मिन्न् अग्नौ यत् पचेयुः क्रव्यादं कुर्युर् न हि तस्मिन्न् अग्नौ मांसं पचन्ति यस्मिन्न् आहुतीर् जुह्वत्य् अयाश् चाग्ने ऽस्य् अनभिशस्तिश् चेत्य् अया वै नामैषाग्नेः प्रिया तनूर् अया मर्याधैर् येणेति खलु वा आहुर् यच् चैवात्र यज्ञे क्रियते यच् च न यां चैवात्र यज्ञस्य प्रायश्चित्तिं विद्म यां च न तस्यैषोभयस्य प्रायश्चित्तिः ॥म्स्_१,४।८॥
अस्य : फ़्न् मित्त्wएदे। एद्।: वाचमिन्वस्य
देवान् जनम् अगन् यज्ञ इति स्कन्नम् अभिमन्त्रयेत जनं वा एतद् यज्ञस्य गछति यत् स्कन्दति जनो हीयम् अस्मद् अधि यज्ञस्य वा एतज् जनं गतस्याशिषम् अवरुन्द्धे पञ्चानां त्वा वातानां धर्त्राय गृह्णामीति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धायं वाव यः पवत एष यज्ञस् तम् एवाग्रहीत् पञ्चानां त्वा दिशां धर्त्राय गृह्णामीतीमा एव पञ्च दिशो ऽग्रहीत् पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामीति पशवो वै सलिलं पशून् एवाग्रहीत् पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामीति पृष्ठान्य् एवाग्रहीत् तेनास्य पृष्ठवन्तौ दर्शपूर्णमासौ सन्तता अविछिन्नौ भवतः पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामीति छन्दांसि वै पञ्च पञ्चजनाश् छन्दांस्य् एवाग्रहीच् चरोस् त्वा पञ्चबिलस्य धर्त्राय गृह्णामीतीमे वै लोकाश् चरुः पञ्चबिल इमान् एव लोकान् अग्रहीत् ॥
धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।
देववीत्यै त्वा गृह्णामि ॥