०७

सद् असि सन् मे भूया इत्य् आशिषो वा एतास् ता एवावरुन्द्धे पूर्णम् असि पूर्णं मे भूया इति पूर्णो ह वा अमुत्राङ्गैः सम्भवति सर्वम् असि सर्वं मे भूया इति सर्वो ह वा अमुत्राङ्गैः सम्भवत्य् अक्षितम् अस्य् अक्षितं मे भूया इत्य् अक्षितो ह वा अमुत्राङ्गैः सम्भवति प्राच्या दिशा देवा ऋत्विजो मार्जयन्ताम् इत्य् एता वै यज्ञस्य मृष्टय एताः शान्तयस् ता बैजवापयो विदाम् अक्रंस् तेषां मृष्टो यज्ञः शान्तो ऽभूद् अघातुकः पशुपतिः पशूंस् तद् य एवं वेद मृष्ट एवास्य यज्ञः शान्तो भवत्य् अघातुकः पशुपतिः पशून् विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसेति विष्णुमुखा वै देवा असुरान् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकम् आयंस् तद् विष्णुमुखो वा एतद् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकम् एत्य् अगन्म स्वर् इति स्वर्गम् एव लोकम् एति सं ज्योतिषाभूमेति ज्योतिर् हि स्वर्गो लोक इदम् अहम् अमुष्य प्राणं निवेष्टयामीति प्राणम् एवास्य निवेष्टयतीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते तेजो ऽसीत्य् आह तेजो ह्य् अग्निः स वै हित्वा प्रजां च पशूंश् च स्वर् एति यद् आह सम् अहं प्रजया सं मया प्रजा सम् अहं पशुभिः सं मया पशव इति प्रजायां चैव पशुषु च प्रतितिष्ठत्य् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया इत्य् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतः पुत्रस्य नाम गृह्णाति प्रजाम् एवानु समतानीत् स वै मानुषम् एवाभ्य् उपावर्तते मनुष्यस्य हि नाम गृह्णाति यद् आहाछिन्नो दिव्यस् तन्तुर् मा मानुषश् छेदीति दिव्यं चैव मानुषं च समतानीद् दिव्याद् धाम्नो मा छित्सि मा मानुषाद् इत्य् उभा इमं लोकं जयतः सह स्वर्गे लोके भवतः ॥म्स्_१,४।७॥
ऽभूद् : फ़्न् फ़्रोम् अभूद्। एद्।: भूद्