सं यज्ञपतिर् आशिषेति यजमानो यजमानभागं प्राश्नाति यजमानो वै यज्ञपतिर् यज्ञो यजमानभागो यद् यजमानो यजमानभागं प्राश्नाति यज्ञपता एव यज्ञं प्रतिष्ठापयति यदि प्रवसेत् समिष्टयजुषा सह जुहुयाद् अग्ना एव यज्ञं प्रतिष्ठापयति यद् धविर् निर्वप्स्यन्न् अग्नौ निष्टपत्य् अग्नेर् एव यज्ञं निर्मिमीते ऽथ यद् धविर् निर्वप्स्यन् यजमानाय प्राह यज्ञपतेर् एवाधि यज्ञं निर्मिमीते ऽग्निर् वै भूयांसं प्रदहत्य् एतं वै लोकं यजमानो न्व् अतिमुच्यते यद् एता आपो ऽतिसृज्यन्ते ऽछिन्नं स्रावायितव्या अद्भिर् वा एतद् यजमानो ऽग्नेर् आत्मानम् अन्तर्धत्ते द्वया वै देवा यजमानस्य गृहम् आगछन्ति सोमपा अन्ये ऽसोमपा अन्ये हुतादो ऽन्ये ऽहुतादो ऽन्य एते वै देवा अहुतादो यद् ब्राह्मणा एतद्देवत्य एष यः पुरानीजान एते वा एतस्य प्रजायाः पशूनाम् ईशते ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति दक्षिणतःसद्भ्यः परिहर्तवा आह दक्षिणावतैव यज्ञेन यजत आहुतिभिर् एव देवान् हुतादः प्रीणाति ते ऽस्मै प्रीता इषम् ऊर्जं नियछन्ति ॥म्स्_१,४।६॥