०५

समृतयज्ञो वा एष यद् दर्शपूर्णमासौ कस्य वाह यक्ष्यमाणस्य देवता यज्ञम् आगछन्ति कस्य वा न बहूनां समानम् अहर् यजमानानां यः पूर्वेद्युर् अग्निं गृह्णाति स श्वो भूते देवता अभियजते ममाग्ने वर्चो विहवेष्व् अस्त्व् इति पूर्वम् अग्निं गृह्णाति देवता वा एतत् पूर्वेद्युर् अग्रहीत् ताः श्वो भूते ऽभियजते बर्हिषा वै पूर्णमासे व्रतम् उपयन्ति वत्सैर् अमावास्यायां पुरा वत्सानाम् अपाकर्तोर् दम्पती अश्नीयातां हस्ता अवनिज्य दक्षिणतो ऽग्निम् उपतिष्ठेताग्ने व्रतपते व्रतम् आलप्स्य इत्य् अग्निर् वै देवानां व्रतपतिर् ब्राह्मणो व्रतभृद् व्रतपतय एव प्रोच्य व्रतम् आलभते ऽग्निं होतारम् उप तं हुव इति येन हविर् निर्वप्स्यन्त् स्यात् तद् अभिमृशेद् देवतानां वा एष ग्रहो देवता वा एतद् अग्रहीद् युनज्मि त्वा ब्रह्मणा दैव्येनेति परिधिषु परिधीयमाणेषु वदेद् अग्नेर् वा एष योगो ऽग्निम् एतद् युनक्ति युनक्तो ऽस्मै हव्यं वहत्य् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इतीडायाम् उपहूयमानायां वदेद् इडाया वा एष दोहा इडां वा एतद् दुहे ऽथो इन्द्रियं वा इडेन्द्रियम् एवात्मन् धत्त आम् आशिषो दोहकामा इत्य् आशिषो वै दोहकामा यजमानम् अभिसर्पन्ति ता दक्षिणतो यजमानलोकम् उपतिष्ठते ता यथा धेनवो ऽदुग्धा अपक्रामन्त्य् एवम् अस्माद् आशिषो ऽदुग्धा अपक्रामन्ति य एवं न वेदाथ य एवं वेदाशिष एव दुहे सा मे सत्याशीर् देवान् गम्याद् इति प्रस्तरे प्रह्रियमाणे वदेत् सत्यां वा एतद् आशिषं देवान् गमयित्वाथ वरं वृणीत एतद् ध स्म वा आहौपाविर् जानश्रुतेयः सहस्रेणेष्ट्वा कम् उ ष्विद् अतो ऽधि वरं वरिष्यामह इति सहस्रेण यक्षीयेति ह स्म वाव ततः पुराह वि ते मुञ्चामि रशनां वि रश्मीन् इति परिधिषु प्रह्रियमाणेषु वदेद् देवता वा एतत् स्वर्गं लोकं गमयित्वा प्रतिष्ठाप्य व्यमौग् इष्टो यज्ञो भृगुभिर् इति यज्ञस्य वा एष दोहो यज्ञम् एतद् दुह एतद् ध स्म वा आह कपिवनो भौवायनः किम् उ स यज्ञेन यजेत यो गाम् इव यज्ञं न दुहीत सुदोहतरो हि गोर् इति ॥म्स्_१,४।५॥