अयाः सन् मनसा कृत्तो ऽयाः सन् हव्यम् ऊहिषे ऽया नो धेहि भेषजं स्वाहा ॥म्स्_१,४।३॥
देवान् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पितॄन् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु मनुष्यान् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछत्व् अप ओषधीर् वनस्पतीन् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पञ्चजनं जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पञ्चानां त्वा वातानां धर्त्राय गृह्णामि पञ्चानां त्वा दिशां धर्त्राय गृह्णामि पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामि चरोस् त्वा पञ्चबिलस्य धर्त्राय गृह्णामि ॥
धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।
देववीत्यै त्वा गृह्णामि ॥