०२

सं यज्ञपतिर् आशिषा सद् असि सन् मे भूयाः पूर्णम् असि पूर्णं मे भूयाः सर्वम् असि सर्वं मे भूया अक्षितम् अस्य् अक्षितं मे भूयाः प्राच्या दिशा देवा ऋत्विजो मार्जयन्तां दक्षिणया दिशा मासाः पितरो मार्जयन्तां प्रतीच्या दिशा गृहाः पशवो मार्जयन्ताम् उदीच्या दिशापा ओषधयो वनस्पतयो मार्जयन्ताम् ऊर्ध्वया दिशा यज्ञः संवत्सरो मार्जयतां विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसा निर्भक्तः स यं द्विष्मो विष्णुर् अन्तरिक्षे व्यक्रंस्त त्रैष्टुभेन छन्दसा निर्भक्तः स यं द्विष्मो विष्णुर् दिवि व्यक्रंस्त जागतेन छन्दसा निर्भक्तः स यं द्विष्मो ऽगन्म स्वः सं ज्योतिषाभूमेदम् अहम् अमुष्य प्राणं निवेष्टयामि तेजो ऽसि सम् अहं प्रजया सं मया प्रजा सम् अहं पशुभिः सं मया पशवो ऽग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अस्थूरि णौ गार्हपत्यं दीदायञ् शतं हिमा द्वायू राधांसि सम्प्र्ञ्चाना असम्पृञ्चानौ तन्वो ऽसा अनु मा तन्व् अछिन्नो दिव्यस् तन्तुर् मा मानुषश् छेदि दिव्याद् धाम्नो मा छित्सि मा मानुषाद् ज्योतिषे तन्तवे त्वा ॥म्स्_१,४।२॥

ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ।
अग्निर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषः पृथिव्याम् अध्य् आसते ।
अग्निर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

यास् ते रात्रयः सवितर् देवयानीः सहस्रयज्ञम् अभि सम्बभूवुः ।
गृहैश् च सर्वैः प्रजया न्व् अग्रे स्वो रुहाणास् तरता रजांसि ॥

ये देवा यज्ञहनो अन्तरिक्षे अध्य् आसते ।
वायुर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषो अन्तरिक्षे अध्य् आसते ।
वायुर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

आगन्म मित्रावरुणा वरेण रात्रीणां भागो युवयोर् यो अस्ति ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥

ये देवा यज्ञहनो दिव्य् अध्य् आसते सूर्यो नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषो दिव्य् अध्य् आसते ।
सूर्यो नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

येनेन्द्राय समभरन् पयांस्य् उत्तमेन हविषा जातवेदः ।
तेनाग्ने त्वम् उत वर्धया मां सजातानां मध्ये श्रैष्ठ्या आ धेहि मा ॥

वेदो ऽसि वेदो मा आभर तृप्तो ऽहं तृप्तस् त्वम् ॥

घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणम् ।
वेदो वाजं ददातु मे ॥

निर् द्विषन्तं निर् अरातिं दह रुद्रास् त्वायछन्न् आदित्यास् त्वास्तृणन् ॥

गोमं अग्ने ऽविमं अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः ।
इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥

सं पत्नी पत्या सुकृतेषु गछतां यज्ञस्य युक्तौ धुर्या अभूताम् ।
आप्रीणानौ विजहता अरातिं दिवि ज्योतिर् उत्तमम् आरभेथां स्वाहा ॥
अभूताम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

पत्नि पत्न्य् एष ते लोको नमस् ते अस्तु मा मा हिंसीर् या सरस्वती वेशयमनी तस्यै स्वाहा ॥

या सरस्वती वेशभगीना तस्यास् ते भक्तिवानो भूयास्म ॥

अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि ।