पयस्वान् अग्ना आगमं तं मा संसृज वर्चसा ॥म्स्_१,३।३९॥
ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥
अग्ने व्रतपते व्रतम् आलप्स्ये तत् ते प्रब्रूमस् तन् नो गोपाय तञ् शकेयम् ॥
अग्निं होतारम् उप तं हुवे देवान् यज्ञियान् इह यान्यजामहै ।
व्यन्तु देवा हविषो मे अस्या देवा यन्तु सुमनस्यमानाः ॥
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः ।
इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्व् आशिषः ॥
आम् आशिषो दोहकामा इन्द्रवन्तो हवामहे ।
धुक्षीमहि प्रजाम् इषम् ॥
सा मे सत्याशीर् देवान् गम्याज्ज् उष्टाज् जुष्टतरा पण्यात् पण्यतरा ॥
अरेडता मनसा देवान् गछ यज्ञो देवान् गछतु यज्ञो देवान् गम्यात् ॥
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।
धत्ताद् अस्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद् भागदां देवतासु ॥
इष्टो यज्ञो भृगुभिर् द्रविणोदा यतिभिर् आशीर्दा वसुभिः ।
अङ्गिरसो मे अस्य यज्ञस्य प्रातरनुवाकैर् अहौषुः ॥