३८

यज्ञ यज्ञं गछ यज्ञपतिं गछ स्वं योनिं गछ स्वाहैष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरस् तेन सम्भव भ्राजं गछ देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहा ॥म्स्_१,३।३८॥

उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ ।
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥

शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु ॥

आरे बाधस्व निरृतिं पराचैः कृतं चिद् एनः प्रमुमुग्ध्य् अस्मत् ॥

अग्नेर् अनीकम् अप आविवेशापां नपात् प्रतिरक्षद् असुर्यान् ॥

दमेदमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच्चरण्यत् ॥

समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
यज्ञस्य ते यज्ञपते सूक्तोक्तौ नमोवाके विधेम ॥ स्वाहावभृथ निचुङ्कुण निचेरुर् असि निचुङ्कुणो गृहं गृहो ऽव नो देवैर् देवकृतम् एनो यक्ष्य् अव मर्त्यैर् मर्त्यकृतं चिकित्वान् उरोर् आ नो देव रिषस् पाह्य् अप्सु धौतस्य ते देव सोम नृभिः ष्टुतस्य यस् ते गोसनिर् भक्षो यो अश्वसनिस् तस्य ता उपहूता उपहूतस्य भक्षयामि विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायोन्नेतर् वसीयो ना उन्नयाभि ॥

उदुत् ते मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥

कण्वा इव भृगवः सूर्या इव विश्वम् इद् धितम् आनशुः ।
उदेत प्रजाम् उत वर्चो दधाना युष्मान् राय उत यज्ञा असश्चत ॥

गायत्रं छन्दो अनु संरभध्वम् अथा स्यात सुरभयो गृहेषु ।
एधो ऽस्य् एधिषीमहि समिद् असि समेधिषीमहि ॥

अपो अद्यान्वचारिषं रसेन समसृक्ष्महि ।