वि स्वः पश्य व्यन्तरिक्षं यतस्व सदस्यैर् अस्मद्राता मधुमतीर् देवत्रा गछत प्रदातारम् आविशतानवहायास्मान् देवगानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतम् ॥म्स्_१,३।३७॥
धाता रातिः सवितेदं जुषन्तां प्रजापतिर् वरुणो मित्रो अग्निः ।
विष्णुस् त्वष्टा प्रजया संरराणो यजमानाय द्रविणं दधातु ॥
सम् इन्द्र नो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति सं देवानां सुमतौ यज्ञियानाम् ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो विदधातु रायो ऽनु नो मार्ष्टु तन्वो यद् विरिष्टम् ॥
सुगा वो देवाः सदना कृणोमि य आजग्मेदं सवनं जुषाणाः ।
जक्षिवांसः पपिवांसश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥
यान् आवह उशतो देव देवांस् तान् प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवींष्य् असुं घर्मं दिवम् आतिष्ठतानु ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।
ऋधग् अयाड् ऋधग् उताशमिष्ट विद्वान् प्रजानन्न् उपयाहि यज्ञम् ॥